संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २८२

खण्डः ३ - अध्यायः २८२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच ॥
एकत्र समवस्थानं बाह्ये द्रव्ये तु चेतसः॥
धारणा सा विनिर्दिष्टा मनसो बन्धकारिका ॥१॥
सा कार्या देवतार्चायां यत्रास्य स्यात्स्थिरा मतिः॥
एकत्र लब्ध्वा लक्ष्यं तु मनसश्चञ्चलस्य तु ॥२॥
तुर्यन्निवारणं यत्नान्मनोऽनुग्रहकारणात्॥
अथ वा लक्ष्यबन्धन्तु भुवि कार्यं विजानता ॥३॥
लब्धलक्षस्तु भूयोगे महीयोगं समुत्सृजेत्॥
लब्धलक्ष्यो नरः कुर्यान्नरास्तेजसि सत्तमाः ॥४॥
समुत्सृज्य ततो वायौ ततो नभसि कारयेत्॥
क्रमशस्त्वेवमारुह्य लक्ष्यं लक्ष्यतया नरः ॥५॥
बाह्येषु धारणां कृत्वा मनसः सिद्धिमश्नुते॥
मनसश्चञ्चलस्यास्य यावद्बन्धनधारणा ॥६॥
तावद्ध्यानमथारूढं न शक्यं केनचिद्द्विजाः॥
धारणां निश्चलां प्राप्य ततो ध्यानमवाप्नुयात् ॥७॥
शरीरं विजहात्येनं यत्र बद्धा तु धारणा॥
प्राप्नोति तन्मयीभावं नात्र कार्या विचारणा ॥८॥
संप्राप्य धारणां मुक्त्वा शरीरं मनुजोत्तमः॥
कालान्मोक्षमवाप्नोति ध्यानाच्छीघ्रमिति स्थितिः ॥९॥
प्राप्तस्तु यन्मयीभावं धारणास्थः पुमांस्ततः॥
स यदा पुरुषं याति तदा स प्रतिपद्यते ॥१०॥
ध्रुवे मोक्षमवाप्नोति धारणां प्राप्य मानवः॥
किन्तु कालेन महता ध्यानाच्छीघ्रमिति स्थितिः ॥११॥
सर्वलोके तथा ज्ञेया बाह्यद्रव्यविनाशनाः॥
तेषान्तु धारणा कार्या मनोग्रहणकारणम् ॥१२॥
संप्राप्य मनसो बन्धं निश्चलं पुरुषोत्तमः॥
धारणायोगतस्तस्माद्ध्रुवं मोक्षमुपाश्नुते ॥१३॥
यदस्य नित्यं हदि संस्थितं स्यात्तत्स्यात्तदेवास्य हि मृत्युकाले॥
यद्भावयत्येव हि मृत्युकाले भवत्यवश्यं स हि तन्मयस्तु ॥१४॥
इति श्रीविष्णुधर्मोत्तरे तृतीय खण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु धारणावर्णनो नाम द्व्यशीत्युत्तरद्विशततमोऽध्यायः ॥२८२॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP