संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १०१

खण्डः ३ - अध्यायः १०१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
अथार्चाशौचानन्तरं पवित्रकस्यार्चायाः कुर्यात्॥
तत्र कमलकर्णिकायां ध्रुवा द्यौरिति मन्त्रेण दक्षिणशिरस्कं प्राक्छिरसं वा शय्यायां स्थापयेत्॥
अतः पञ्चवर्णैः पञ्चभिरास्तरणैरास्तरयेत्।
शुद्धावत्यश्चोदीरयेत्।
ततो युवा सुवासा इति प्रच्छादनपटं दद्यात्॥
गण्डोपधानं च ।
ततो गर्भमयं सप्तशीर्षमनन्तं नागं कुर्यात् ।
तं च शयने स्थापयेत्॥
ततो जीवस्यावाहनं कुर्यात शिवसंकल्पं चोदीरयेत् ।
ततस्त्वनन्तस्यावाहनं प्रयोजयेत् ।
ततोर्घ्यपाद्यमाचमनीयमनुलेपनमाल्यदीपधूपमधुपर्कप्रापणकमात्राभिः प्रत्येकं सावित्रेणानन्तरमर्चयेत्॥
ततः सर्पसाम ।
नमोस्तु सर्पेभ्य इति योगेयोगेति मन्त्रं चोदीरयेत्॥
अनन्तमाहात्म्यं च वा वदेत्॥
ततो ध्रुवा द्यौरिति मन्त्रेणानन्तोपरि श्रीभगवदर्चा पवित्रके स्थापयेत्॥
ततो जीवस्यावाहनं कुर्यात् ।
शिवसङ्कल्पं जपेत् ।
ततो भगवन्तमावाहयेत् ।
ततः सर्वे भून्यस्तजानवः प्रणामं कुर्युः आगतश्च भगवानिति ब्रूयुः ।
ततः शङ्खपटहभेरीजयशब्दैः पूजयेयुः ।
ततोऽर्घ्यपाद्याचमनीय स्नानीयानुलेपनमाल्यधूपदीपमधुपर्कप्रापणकमात्रादानैः श्रीभगवन्तं प्रत्येकं सवित्रेणार्चयेत् ।
ततः स्वस्ति न इन्द्र इति जपेत् ।
ततो युवासुवासा इति श्रीभगवन्तं महता वासोयुगेनाच्छादयेत् युञ्जते मन इति पुष्पैरवकिरेत् ।
बोधश्चमा प्रतिबोधश्चेति सिद्धार्थैरवकिरेत् ।
प्रादुरभावानिति वाचयेत् ।
एवमधिवासनं कार्यम्॥
अधिवासिते च भगवति अर्चास्थण्डिले वेदिं प्रतिष्ठाप्य आसनानि पादपीठानि च अर्चाशौचविधानेन वेदिमासनानि च शोधयेत् ।
ततः शङ्करगीतोक्तविधिना इज्यां सात्त्वतः कुर्यात् ।
इज्यासमकालमेव होमस्थण्डिले होता होमं वेदीशौचमासनानां सकृदेव विधत्ते॥
इज्याहोमो तु कर्तव्यो प्रत्यहं त्वधिवासिते ।
पूजनं गीतनृत्यैश्च प्रतिष्ठा यावदागता ।
अधिवासनमेतत्ते मया सम्यगुदाहृतम् ॥१॥
इति श्रीविष्णु० ध० तृ० ख० मा० व० सं० अधिवासनवर्णनो नामैकाधिकशततमोऽध्यायः ॥१०१॥

N/A

References : N/A
Last Updated : January 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP