संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३५३

खण्डः ३ - अध्यायः ३५३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच ॥
एतद्धि नारदः श्रुत्वा नरनारायणेरितम्॥
अनेनैव विधासततं मधुसूदनम् ॥१॥
पूजयामास धर्मात्मा तद्गतेनान्तरात्मना॥
ततः पुंसवनो भगवान् नारदस्य महात्मनः ॥२॥
प्रत्यक्षतः पुनर्भूतं नारदं वाक्यमब्रवीत्॥
गच्छ नारद भद्र त्वं लोकांश्चर यथेप्सितान् ॥३॥
दर्शनं तव दास्यामि कालेकाले यथेप्सिते॥
अनुग्रहमिदं प्राप्य देवेशात्पुरुषोत्तमात् ॥४॥
चचार नारदो लोकान्नित्यं संपूजयन्हरिम्॥
विश्वरूपमिदं दृष्टं नारदेन महात्मना ॥५॥
प्रह्लादेन पुनस्तेन नरकेसरिरूपिणः॥
तथा चामृतकादेहे तेनैव च महात्मना ॥६॥
ब्रह्मणा च पुरा दृष्टं त्रैलोक्याक्रमणे पुनः॥
पश्चिमे सागरे दृष्टं दशग्रीवेण रक्षसा ॥७॥
कृष्णावतारे दूत्येन गतस्य मधुविद्विषः॥
धार्तराष्ट्रसभामध्ये ऋषिभिश्च परीक्षितः ॥८॥
महाभारतसंग्रामे दृष्टवानर्जुनस्तथा॥
बन्धुनाशभयोद्विग्नो यत्र तेन प्रबोधितः ॥९॥
निवृत्ते भारते युद्धे गच्छन्तो द्वारकां पुनः॥
मार्गागतेन तद्दृष्टमुत्तंकेन महात्मना ॥१०॥
त्रैलोक्यनाथो गोविन्दः सततं भक्तवत्सलः॥
तस्य कर्माणि यो नित्यं पुरुषः परिकीर्तयेत् ॥११॥
शृणुयाद्वा महीपाल शुचिस्तद्गतमानसः॥
सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥१२॥
एवं स राजन्द्विजवर्यमुख्यः संप्राप्तवान्देववरात्प्रसादम्॥
भक्तिक्रमक्रैयनृपप्रसादात्तस्माद्धिकामान्पुरुषा लभंते ॥१३॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे नारदप्रसादो नाम त्रिपञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥३५३॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP