संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३२३

खण्डः ३ - अध्यायः ३२३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच
स्वेस्वे धर्मे व्यवस्थानं वर्णानां पृथिवीपतेः॥
परो धर्मः सदा प्रोक्तस्तत्र यत्र भवेन्नरः ॥१॥
देवब्राह्मणगोसाध्वीसाधूनामपि पूजनम्॥
निग्रहश्चैव दुष्टानान्नृपतेर्धर्मकारणम् ॥२॥
समता व्यवहारेषु स्वयञ्चैवान्ववेक्षणम्॥
राज्ञां धर्मं परं विद्यात्तथा वै चारदृष्टिता ॥३॥
स्वदेशपालनं धर्मः परराष्ट्राभिमर्दनम्॥
यज्ञदानक्रिया चैव संग्रामे चापलायनम् ॥४॥
मृगयाक्षा तथा पानं गर्हितानि महीभुजाम्॥
वाग्दण्डयोस्तु पारुष्यन्तथैवार्थस्य दूषणम् ॥५॥
सन्धिविग्रहदानानामासनस्य तथैव च॥
द्वैधीभावस्य चाप्युक्ता सेवा वै संश्रयस्य च ॥६॥
ज्ञात्वा कालञ्चलं राजा षाड्गुण्यस्य हि निश्चये॥
इन्द्रियाणाञ्जये यत्नः सदा स्याद्द्विजपुङ्गवाः ॥७॥
ततो भृत्यजयः कार्यः समस्तविजयस्ततः॥
कामः क्रोधो मदो लोभो मानो हर्षस्तथैव च ॥८॥
आभ्यन्तरा विजेतव्या रिपवः षण्महीभुजा॥
ततस्तु शत्रवो जेयाः कुल्याश्चेतरकृत्रिमाः ॥९॥
भूमिमित्रहिरण्यानामर्ज्जने यत्नवान्भवेत्॥
धर्मार्थकामसेवा च सदा कार्या महीक्षिता ॥३१०॥
स्वाम्यमात्यञ्जनं दुर्गं कोशो दण्डः सुहृत्तथा॥
राज्ये प्रकृतयः सप्त रक्ष्या यत्नेन भूभुजा ॥११॥
दैवमन्त्रप्रभूत्साहशक्तियुक्तस्तथा भवेत्॥
मङ्गलाचारयुक्तानां सिध्यन्ते देवशक्तयः ॥१२॥
चतुरङ्गबलं कुर्यात्सुभृतञ्च तथा नृपः॥
कर्मणा मनसा वाचा सदा लोकं प्रसादयेत् ॥१३॥
महच्चावरणं कार्यन्नित्यमेव समृद्धये॥
राजा सहायसम्पन्नः पशव्यञ्जाङ्गलं शिवम् ॥१४॥
वैश्यशूद्रजनप्रायमरोगं देशमावसेत॥
तत्र दुर्गाणि कुर्वीत स्वदुर्गञ्च विशेषवत् ॥१५॥
धन्वदुर्गम्महीदुर्गं गिरिदुर्गन्तथैव च॥
अदुर्गं वृक्षदुर्गञ्च नरदुर्गन्तथैव च ॥१६॥
एषामन्यतमे दुर्गे धनधान्यसमायुते॥
हस्त्यश्वरथसम्पन्ने मणिभीरूपशोभिते ॥१७॥
पत्त्याढ्ये योधबहुले युद्धोपकरणैर्युते॥
सुसञ्चिते धनाढ्ये च बहुपेये बहूदके ॥१८॥
हस्त्यश्वनरगोवैद्यसांवत्सरयुते शुभे॥
घृततैलौषधियुते सर्वोपकरणैस्तथा ॥१९॥
प्राकारपरिखावप्रगोपुराट्टालकैर्युते॥
पापतस्करदुर्वृत्तक्रुद्धलुब्धादिवर्जिते ॥३२०॥
दैवज्ञस्थपतिभ्यान्तु संमत्या शुभलक्षणम्॥
तत्रावसेत्स्वयं राजा सर्वोपकरणैर्युतम् ॥२१॥
कुलीनां रूपसम्पन्नां सवर्णाञ्च नराधिपः॥
कुर्याद्भार्यां सुशीलाञ्च विनीतां धर्मवत्सलाम् ॥२२॥
तया सह सदा राजा गृहस्थाश्रमचोदितम्॥
पञ्चयज्ञविधानन्तु कारयेत पुरोहितम् ॥२३॥
यजेच्च विविधैर्यज्ञैः पूजयेद्देवतास्तथा॥
देवतायतनान्कूपांस्तडागांश्चैव कारयेत् ॥२४॥
उद्यानानि विचित्राणि गोब्राह्मणगृहाणि च॥
दुष्टदण्डः सताम्पूजा धर्मेण च धनार्जनम् ॥२५॥
राष्ट्ररक्षा समत्वञ्च व्यवहारेषु पञ्चकम्॥
भूमिपानाम्महायज्ञाः सर्वकल्मषनाशनाः ॥२६॥
गणं लक्षणसंयुक्तं तुरगञ्चाभिषेचयेत्॥
सलक्षणं तथा रत्नं खड्गकम्बिभृयान्नृपः ॥२७॥
दुर्गस्थश्च नियुञ्जीत ग्रामेग्रामे च पालकान्॥
दशग्रामाधिपांश्चान्यं शतग्रामाधिपांस्तथा ॥२८॥
देशेश्वरांस्तथा कुर्यान्नगरस्थान्विशेषतः॥
ग्रामदोषान्समुत्पन्नान् ग्रामपालः शमं नयेत् ॥२९॥
अशक्तश्च दशेशाय स तु गत्वा निवेदयेत्॥
शतेशाय दशेशस्तु शतेशो देशपाय च ॥३३०॥
ग्रामादिपालकानां तु शौचाशौचं नराधिपः॥
चारैः सुविदितं कुर्याज्ज्ञात्वा दुष्टांश्च घातयेत् ॥३१॥
राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः॥
भृत्या भवन्ति प्रायेण तेभ्यो रक्षेद्वसुन्धराम् ॥३२॥
तथा च रक्षाधिकृताननुरूपेण योजयेत्॥
विभवेन द्विज श्रेष्ठाः परीक्ष्य च पुनःपुनः ॥३३॥
राजा कर्मनियुक्तानां स्त्रीणां प्रेष्यजनस्य च॥
प्रत्यहं कल्पयेद् वृत्तिं स्थानकर्मानुरूपतः ॥३४॥
आयद्वारांश्च नोच्छिन्द्याद्विशेषद्वारकानपि॥
सम्यग्बलिश्च गृह्णीयान्मालाकारोपमां नृपः ॥३५॥
क्रयविक्रयमध्वानं भक्तञ्चासपरिव्ययम्॥
योगक्षेमञ्च सम्प्रेक्ष्य वणिजो दापयेत्करम् ॥३६॥
यथा फलेन युज्येत राजा कर्त्ता च कर्मणाम्॥
तथावेक्ष्य नरो राष्ट्रे कल्पयेत्सततं करम् ॥३७॥
पञ्चाशद्भाग आदायो राज्ञाम्पशुहिरण्ययोः॥
धान्यानाञ्च तथा षष्ठं सस्यानाञ्च महीक्षिता ॥३८॥
षष्ठमेव तथा भागं माषाणां मधुसर्पिषाम्॥
गन्धौषधिरसानाञ्च पुष्पमूलफलस्य च ॥३९॥
पत्रशाकतृणानाञ्च चर्मणां द्वैदलस्य च॥
मृन्मयानाञ्च भाण्डानां सर्वस्याश्ममयस्य च ॥३४०॥
यत्किञ्चिदपि वर्षस्य दापयेत्करसंज्ञितम्॥
व्यवहारेण जीवन्तं राष्ट्रे राज्यं पृथक्पृथक् ॥४१॥
राजदूतकरेभ्यश्च गृह्णीयात्पञ्चकं शतम्॥
पञ्चपञ्चशतन्तत्र समिकः प्राप्तुमहर्ति ॥४२॥
कारुकाञ्शिल्पिनश्चैव शूद्रधर्मोपजीविनः॥
एकैकं कारयेत्कर्म मासिमासि महीपतिः ॥४३॥
स्वदेशपण्याच्छुल्कांशं गृह्णीयाद्दशमं नृपः॥
विदेशपण्याच्च तथा देयम्पञ्चशतं समम् ॥४४॥
शुल्कस्थानम्भवेदेकं न द्वितीयं कथञ्चन॥
शुल्कं भूयस्तु गृह्णीतश्चौरस्याप्नोति किल्बिषम् ॥४५॥
न भिन्नकार्षापणमस्ति शुल्कं न शिल्पवृत्तौ न शिशौ न दूते॥
न भैक्ष्यलब्धेन हतावशेषे न श्रोत्रिये प्रव्रजिते न यज्ञे ॥४६॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु राजधर्म्मनिरूपणो नाम त्रयोविंशत्यधिकत्रिशततमोऽध्यायः ॥३२३॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP