संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २४४

खण्डः ३ - अध्यायः २४४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
मदो विवर्जितः सद्भिर्वर्जनीयः प्रयत्नतः॥
मदे तु बहवो दोषा लोकद्वयविवातकाः ॥१॥
मत्तः कार्यं न जानाति गुरूनप्यवमन्यते॥
मत्तस्य नरकद्वारं नित्यं विप्रास्त्वपावृतम् ॥२॥
मत्तो भयं न जानाति मरणेऽप्यतिकुत्सिते॥
मत्तो मोहसमापन्नो न विजानाति किञ्चन ॥३॥
मदानामपि सर्वेषां ज्ञेयः पानमदोऽधमः॥
तेनाभिभूतः पुरुषो न मृतादतिरिच्यते ॥४॥
अज्ञानतुल्यं न हि दोषमस्ति हेतुश्च तस्येह परो मदः स्यात्॥
तस्मात्प्रयत्नेन मदस्य हेतुर्नरेण पानं परिवर्जनीयम् ॥५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु मददोषवर्णनो नाम चतुश्चत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥२४४॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP