संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०५५

खण्डः ३ - अध्यायः ०५५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
शिवस्य रूपनिर्माणं वह्नेर्वै निर्ऋतेस्तथा॥
वायोश्च ब्रूहि धर्मज्ञ तत्र मे संशयो महान् ॥१॥
मार्कंडेय उवाच॥
वामार्धे पार्वती कार्या शिवः कार्यश्चतुर्भुजः॥
अक्षमालां त्रिशूलं च तस्य दक्षिणहस्तयोः ॥२॥
दर्पणेन्दीवरौ कार्यौ वामयोर्यदुनन्दन॥
एकवक्त्रो भवेच्छम्भुर्वामा च दयिता तनुः ॥३॥
द्विनेत्रश्च महाभाग सर्वाभरणभूषितः॥
अभेदभिन्ना प्रकृतिः पुरुषेण महाभुज ॥४॥
गौरीशर्वेति विख्याता सर्वलोकनमस्कृता॥
कारणं कथितं पूर्वं शूलादीनां मया तव ॥५॥
ईशानरूपं कथितं तवेदं रूपं तथाग्नेः शृणु धर्मनित्यम्॥
वेदा यदर्थं जगति प्रवृत्ता मुखं च यत्सर्वसुराऽसुराणाम् ॥६॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे गौरीशर्ववर्णनो नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥५५॥

N/A

References : N/A
Last Updated : December 26, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP