संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १५६

खण्डः ३ - अध्यायः १५६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
अथातः संप्रवक्ष्यामि षण्मूर्तेरर्चनं तव॥
वसन्ते पूजयेन्नित्यं द्वौ मासौ मधुमाधवौ ॥१॥
फलैः पुष्पैः कषायैस्तु ग्रीष्मेग्रीष्मे च पूजयेत्॥
मधुरेण महाराज प्रावृट्काले हिते च तम् ॥२॥
अम्लेन पूजयेन्नित्यं शरदं लवणेन च॥
बटुकेन च हेमन्ते तिक्तेन शिशिरे तथा ॥३॥
नक्ताशनस्तथा तिष्ठेदृतूक्तं वर्जयेद्रसम्॥
ब्राह्मणान्भोजयेच्चात्र ऋतूक्तं रसभोजनम् ॥ ॥४॥
संवत्सरमिदं कृत्वा व्रतं परमपावनम्॥
अश्वमेधमवाप्नोति राजसूयं च विन्दति ॥५॥
सर्वान्कामानवाप्नोति नात्र कार्या विचारणा॥
फलमक्षय्यमाप्नोति व्रतस्यास्य नरोत्तम ॥६॥
चैत्रादथारभ्य सिते च षष्ठीं संपूजयेद्यो ऋतुषट्कमेवम्॥
कृतोपवासस्तु यथोक्तमेतत्फलं लभेत्पूर्णमितीदमुक्तम् ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे षण्मूर्तिव्रतवर्णनो नाम षट्पञ्चाशदुत्तरशततमोऽध्यायः ॥१५६॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP