खण्डः ३ - अध्यायः ०६३
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
मार्कण्डेय उवाच॥
पद्मपत्रासनस्थस्तु ब्रह्मा कार्यश्चतुर्मुखः॥
सावित्री तस्य कर्तव्या वामोत्सङ्गगता तथा ॥१॥
आदित्यवर्णा धर्मज्ञ साक्षमालाकरा तथा॥
रूपं पूर्वोदितं कार्यं सर्वमन्यज्जगत्पते ॥२॥
एतद्धि रूपं वरदस्य कार्यं पितामहस्याप्रतिमस्य सौम्य॥
पूर्वोदितं वा वरदस्य तस्य लोकं समग्रं वशगं हि यस्य ॥३॥
इति श्रीविष्णुधर्मोत्तरे तृतीय खण्डे मार्कण्डेयवज्रसंवादे ब्रह्मरूपनिर्माणो नाम त्रिषष्टितमोऽध्यायः ॥६३॥
N/A
References : N/A
Last Updated : December 26, 2022

TOP