संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०६५

खण्डः ३ - अध्यायः ०६५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
आचक्ष्व रूपनिर्माणं ममानन्तस्य देवज॥
विष्णोरमितवीर्यस्य शेषस्य धरणीभृतः ॥१॥
मार्कंडेय उवाच॥
कुर्याच्छशाङ्कसङ्काशं रत्नोज्ज्वलफणान्वितम्॥
नीलवस्त्रं चतुर्बाहुं सर्वाभरणधारिणम् ॥२॥
फणाश्च बहवः कार्या यत्फणं तस्य मध्यमम॥
तत्र रूपवती कार्या वसुधा यदुनन्दन ॥३॥
पद्मं समुसलं कार्यं देवदक्षिणहस्तयोः॥
वामयोस्सीरशंखे च करे तस्य सुराम्बुधिः ॥४॥
तालवृक्षं जगत्सर्वं कथितं तु महाभुज॥
विख्यातौ सीरमुसलौ पूर्वमेव मया तव ॥५॥
वनमाला च विख्याता तथा यदुकुलोद्वह॥
पृथिवी धार्यते तेन सशैलवनकानना ॥६॥
पृथिवी तेन कर्तव्या फणे तस्य तु मध्यमे ॥७॥
फणावलिप्तस्य तया प्रतिष्ठा कामास्तु ते यादववंशमुख्य॥
एतद्धि रूपं परमेश्वरस्य विष्णोरचिन्त्यस्य मयेरितं ते ॥८॥
इति श्रीविष्णुधमोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादेऽनन्तरूपनिरूपणो नाम पञ्चषष्टितमोऽध्यायः ॥६५॥

N/A

References : N/A
Last Updated : December 26, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP