संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २१७

खण्डः ३ - अध्यायः २१७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥पुलस्त्य उवाच॥
शृणु दाल्भ्य परं कामं व्रतं सन्ततिदं नृणाम्॥
यदुपोष्य न विच्छेदः पितृपिण्डस्य जायते ॥१॥
कृष्णाष्टम्यां चैत्रमासे स्नातो नियतमानसः॥
कृष्णमभ्यर्च्य पूजां च देवक्याः कुरुते नरः ॥२॥
निराहारो जपन्नाम कृष्णस्य जगतः पतेः॥
उपविष्टो व्रजन् स्नातः क्षुतप्रस्खलनादिषु ॥३॥
पूजायां चापि कृष्णस्य सप्तवारान्प्रकीर्तयेत्॥
पाषण्डिनो विकर्मस्थान्नालपेच्चैव नास्तिकान् ॥४॥
प्रभाते च ततः स्नातो दत्त्वा विप्राय दक्षिणाम्॥
भुञ्जीत कृतपूजस्तु कृष्णस्यैव जगत्पतेः ॥५॥
वैशाखज्येष्ठयोश्चैवं पारणं हि त्रिमासिकम्॥
उपोष्य देवदेवेशं घृतेन स्नापयेद्धरिम् ॥६॥
आषाढे श्रावणे चैव मासि भाद्रपदे तथा॥
उपोष्यते द्वितीयं वै घृतेन स्नपयेद्धरिम् ॥७॥
आषाढे श्रावणे चैव मासि भाद्रपदे तथा॥
उपोष्यते द्वितीयं वै पारणं पूर्ववद्भवेत् ॥८॥
आश्विने कार्तिके सौम्ये तृतीयं पारणं तथा॥
पौषे माघे फाल्गुने च चतुर्थं द्विजसत्तम ॥९॥
पारणे पारणे पूर्णे घृतेन स्नापयेद्धरिम्॥
ब्राह्मणेभ्यो घृतं दद्यात्तथैव प्रतिपारणम् ॥१०॥
कृत्वा व्रतं नाकमनुप्रयाति मानुष्यमासाद्य च निर्वृतः स्यात्॥
सन्तानवृद्धिश्च तथाप्नुतेऽसौ यावन्मही सागरमेखलान्ता ॥११॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सन्तानाष्टमीव्रतवर्णनोनाम सप्तदशोत्तरद्विशततमोऽध्यायः ॥२१७॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP