संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २५४

खण्डः ३ - अध्यायः २५४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच ॥
ज्ञानं सुखावहं लोके ज्ञानं चक्षुः परं मतम्॥
ज्ञानाद्धर्ममवाप्नोति ज्ञानादर्थं च मानवः ॥१॥
ज्ञानात्काममवाप्नोति ज्ञानान्मोक्षं च गच्छति॥
तस्मात्सर्वप्रयत्नेन ज्ञाने यत्नं समाचरेत् ॥२॥
ज्ञानेन सर्वमाप्नोति यत्किञ्चिन्मनसेच्छति॥
ज्ञानैकहेतुश्च तथा नित्यं शास्त्रान्ववेक्षणम् ॥३॥
आचार्यगुरुशुश्रूषा वृद्धानां चैव सेवनम्॥
अनालस्यमकार्पण्यं दिवा निद्राविवर्जनम् ॥४॥
ज्ञानमेष परो बन्धुर्ज्ञानं मार्गस्य देशकम्॥
संसारबन्धनक्लेशाँस्तथा ज्ञानेन मुञ्चति ॥५॥
ज्ञानेन पुरुषो वेत्ति ज्ञानाद्वैराग्यमृच्छति॥
ज्ञानेन तदवाप्नोति यद् गत्वा नानुशोचति ॥६॥
एतद्विदित्वा पुरुषेण कार्यं ज्ञाने सदा यत्नमदीनसत्त्वाः॥
ज्ञानं समासाद्य महानुभावा विमुक्तदुःखाः सुखिनो भवन्ति ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु ज्ञानवर्णनो नाम चतुष्पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥२५४॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP