संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०१२

खण्डः ३ - अध्यायः ०१२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
अतः परं प्रवक्ष्यामि यदुवंशविवर्धन॥
तव पुंवाचकाञ्शब्दाञ्शृणु तान्गदतो मम ॥१॥
राजा कृताक्षमूर्धात्मा पायुश्लेष्माश्मपूरणः॥
मज्जा प्लीहा च कथिता नाताद्यस्काः पुमर्थकाः ॥२॥
वृत्रः पुत्रस्तथा मन्त्रस्तथैवामन्त्र इष्यते॥
पुंसि राशिर्मुहुर्तश्च मासः पक्षोऽब्दवत्सरौ ॥३॥
ऋतुः कालो गिरिः शैलः शिलोच्चयत्तुगाचलाः॥
सुरासुराणां संज्ञाश्च याश्च प्रोक्ता महोदधेः ॥४॥
संवत्सरश्च दिवसो ग्रहो वासर एव च॥
पर्यायः पङ्कशरयोररिनिस्त्रिंशयोरपि ॥५॥
पुत्रपर्यायशब्दाश्च पितृपर्यायसंयुताः॥
कण्ठबाह्वोस्तथा संज्ञाः स्तनकेशरदस्य च ॥६॥
गुल्फनामानि कर्णश्च हनुः प्रश्नो विधिर्निंधिः॥
कपोलनामानि तथा निर्घोकेक्षुककेलयः ॥७॥
कलिर्विघ्नो घटो जूटः पटः पायुः कुशोंऽकुशः॥
बिन्दुः स्वरः कुठारश्च पण शाणौ च पर्पटः ॥८॥
वटो बन्धः पुटो मृत्युर्मन्युः शोणः किणः फणः॥
गुणश्चूर्णो गणः पन्था अध्वाङ्गुः पूग एव च ॥९॥
कमण्डलुः पलां डुश्च गण्डः स्थूलश्च कङ्कटः॥
प्रस्थः शङ्खो रथश्चैव रसो वर्गस्तुषो बुधः ॥१०॥
यवो माषस्तथा शब्दः स्पर्शो गन्धः शठो वणिक्॥
करीषस्तरलो मेढ्रो रथो मण्डप एव च ॥११॥
नरको नूपुरश्चैव समुद्गी लोक एव च॥
काषार्षयः कोणमुसलौ कुसूलः शूर्पदर्दुरौ॥
पञ्च पिण्याकशूर्पाश्च वातदण्डांकुरांकुशाः ॥१२॥
कुणयः प्रोथयूथौ च कुन्तदर्पणवेणुकाः॥
ध्वजो वंशस्तथा वेणुः क्रिमिकल्कर्षिकर्दराः ॥१३॥
पुस्तकश्चाध्वरो व्रीहिरम्बुदोञ्जन एव च ॥१४॥
स्तंभः पशुर्घर्मनिदाघकुम्भाः कटाहयूपस्तबकाः सफेना॥
नितम्बषण्ढक्षुपसूपयूपाः पुंसि स्मृता यादववंशमुख्य ।! १५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादेऽभिधानकोशे पुंवर्गनिर्देशो नाम द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP