संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०६४

खण्डः ३ - अध्यायः ०६४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
देवी सरस्वती कार्या सर्वाभरणभूषिता॥
चतुर्भुजा सा कर्तव्या तथैव च समुत्थिता ॥१॥
पुस्तकं चाक्षमालां च तस्या दक्षिणहस्तयोः॥
वामयोश्च तथा कार्या वैष्णवी च कमण्डलुः ॥२॥
समपादप्रतिष्ठा च कार्या साममुखी तथा॥
वेदास्तस्य भुजा ज्ञेयाः सर्वशास्त्राणि पुस्तकम् ॥३॥
सर्वशास्त्रामृतरसो देव्या ज्ञेयः कमण्डलुः॥
अक्षमाला करे तस्याः कालो भवति पार्थिव ॥४॥
सिद्धिर्मूर्तिमती ज्ञेया वैष्णवी नात्र संशयः॥
सावित्री वदनं तस्याः सर्वाद्या परिकीर्तिता ॥५॥
चन्द्रार्कलोचना ज्ञेया सा च राजीवलोचना ॥६॥
सारस्वतं ते कथितं मयैतद्रूपं पवित्रं परमं मनोज्ञम्॥
ध्येयं च कार्यं च महीपमुख्य सवार्थसिद्धिं समभीप्समानैः ॥७॥
इति विष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सरस्वतीरूपनिर्माणो नाम चतुःषष्टि तमोऽध्यायः ॥६४॥

N/A

References : N/A
Last Updated : December 26, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP