संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०१९

खण्डः ३ - अध्यायः ०१९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
अथातोद्यविधानम्॥
चतुर्विधमातोद्यं ततं सुषिरं घनमवनद्धं च ।
ततं वीणादि, शुषिरं वंशादि घनं तालादि अवनद्धं मुरजादि तत्र स्वरास्तुल्याः शारीरा वैणवाश्च।
तद्वद्वंशा किन्तु यथा शरीराणामा रोहावरोहणे तथा वैणवानां वंशानां विपर्ययात् तालः कालप्रयोज्यः ।
पञ्चलघ्वक्षरोच्चारणकलामात्रास्तिस्रो वृत्तयः ।
चित्रा वृत्तिर्दक्षिणा द्विधा ।
मात्राकलाचित्रे चतुर्मात्रावृत्तौ अष्टमात्रा दक्षिणाया ।
अष्टमात्रादक्षिणे अवया निष्क्रयो विक्षेपः प्रवेशः शम्पातालः संनिपातभेदः ।
कलासमूहो युक्तः ।
चपुटस्थः अयुक् चञ्चत्पुटलः प्लुतान्तः पञ्चपाणिः ख इति तापुत्रा यथाक्षरस्थः ।
तत्र लयाः द्रुतमध्यविलम्बिताः ।
लयवत्तालः ।
प्रकरणं द्विविधम् । कुलकं च्छेद्यकं च ।
अथावनद्धं तत्र पौष्करवत्क्वणान्वितं करुणान्वितम् ।
तत्र षोडशाक्षराणि क ख ग घ ट ठ ड ण त थ द ध य र ल व इति, तत्र कटरथउगादिदक्षिणमुखे, घधमा वामे, गदकारा मृर्ध्निः टणलहा आलिङ्गे अआइउएओ अइ च ओ यथायोगं खगधा नां रेफेण योगः ।
कहभदानां णलथवः ।
समहस्तनिपातादङ्गुलीप्रचलनोर्धवामैकयोः समहस्तनिपातप्रदेशिनी तद्वद् डल्लानां योगः समपाण्यर्ध पाणिरदीर्घपाणिरेकपाणिः द्विहस्तप्रदेशिनीप्रहतानि समपाणिप्रहतोपकार घथगडराअध्यर्धपाणौ कथकारा।
अध्यर्धपाणौ ठणलहास्नहाद्विहस्तेन तलप्रदेशिनीप्रहते अहितवितस्तालिप्तगोमुखीमार्गाः शृङ्गारहास्ययोरंधितः ।
वीररौद्राद्भुतेषु वितस्तः करुणाशान्तयोरालिप्तः ।
बीभत्सभयानकयोर्गोमुखदर्दुरपणवयोर्मृदङ्गानुगमनं भवति ।
भवन्ति चात्र नेपथ्यभवनद्वारासमानरङ्गाभिवीक्षणम् ।
मुरजाः पृष्ठतस्तेषां तद्वन्मार्जनिका भवेत्॥
याम्यतस्तस्य विज्ञेयो दर्दुरः पणवस्तथा॥
उत्तराभिमुखो गाता तथा दक्षिणतो भवेत्॥
वामतो गैरिकस्तस्य दक्षिणे वंशवादकौ॥
गातुरेवाभिमुख्येन गायकानां निवेशनम्॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे आतोद्यविधिर्नामैकोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP