संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २५५

खण्डः ३ - अध्यायः २५५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच॥
धर्मे यत्नः सदा कार्यो धर्म एकः सुखावहः॥
धर्मेण पाल्यते सर्वं त्रैलोक्यं सचराचरम् ॥१॥
धारणाद्धर्ममित्याहुर्धर्मो धारयति प्रजाः॥
धर्मे संसेविते कामान्प्राप्नोति मनसेप्सितान् ॥२॥
धर्मेणार्थं तथा लोके प्राप्नोति मनसेप्सितम्॥
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ ॥३॥
विमुखा बान्धवा यान्ति धर्मस्त्वेकोनुगच्छति॥
एकस्मिन्नप्यतिक्रान्ते दिने धर्मविवर्जिते ॥४॥
दस्युभिर्मुषितस्येव युक्तमाक्रन्दितं चिरम्॥
बलादेव चरेद्धर्ममनित्यं जीवितं यतः ॥५॥
नास्ति धर्मविहीनस्य सुखमण्वपि वै द्विजाः॥
धर्मेण देवैर्देवत्वमृषित्वमृषिभिस्तथा ॥६॥
प्राप्तं धर्मेण सकलं ब्रह्मणा च कृतं जगत्॥
येन सर्वमिदं सृष्टं स वै धर्मे हरिः स्थितः ॥७॥
कृतस्य धर्मस्य न चास्ति नाशस्तस्मात्तु धर्मः पुरुषेण कार्यः॥
धर्मे कृते नास्ति भयं नराणां लोकेपरे चेह तथा द्विजेन्द्राः ॥८॥
इति श्रीविष्णुधर्मात्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु धर्मप्रशंसावर्णनो नाम पञ्चपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥२५५॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP