संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०७९

खण्डः ३ - अध्यायः ०७९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कंडेय उवाच॥
ऐश्वर्यमनिरुद्धस्तु वराहो भगवान्हरिः॥
ऐश्वर्यशक्त्या दंष्ट्राग्रसमुद्धृतवसुन्धरः ॥१॥
नृवराहोऽथ वा कार्यः शेषोपरिगतः प्रभुः॥
शेषश्चतुर्भुजः कार्यश्चारुरत्नफणान्वितः ॥२॥
आश्चर्योत्फुल्लनयनो देवीवीक्षणतत्परः॥
कर्तव्यौ सीरमुसलौ करयोस्तस्य यादव ॥३॥
सर्पभूषश्च कर्तव्यस्तथैव रचिताञ्जलिः॥
आलीढस्थानसंस्थानस्तत्पृष्ठे भगवान्भवेत् ॥४॥
सव्येऽरत्निगता तस्य योषिद्रूपा वसुन्धरा॥
नमस्कारपरा तस्य कर्तव्या द्विभुजा शुभा ॥५॥
यस्मिन्भुजे धरा देवी तत्र शङ्खः करे भवेत॥
अन्ये तस्य कराः कार्याः पद्मचक्रगदाधराः ॥६॥
हिरण्याक्षशिरच्छेदश्चक्रोद्यतकरोऽथ वा॥
शूलोद्यतहिरण्याक्षसम्मुखो भगवान्भवेत् ॥७॥
मूर्तिमन्तमनैश्वर्यं हिरण्याक्षं विदुर्बुधाः॥
ऐश्वर्येण वराहेण स निरस्तोऽरिमर्दनः ॥८॥
नृवराहोऽथ वा कार्यो ध्याने कपिलवत्स्थितः॥
द्विभुजस्त्वथ वा कार्यः पिण्डनिर्वहणोद्यतः ॥९॥
समग्रक्रोडरूपो वा बहुदानवमध्यगः॥
नृवराहो वराहो वा कर्तव्यः क्ष्माविधाणे ॥१०॥
ऐश्वर्ययोगोद्धृतसर्वलोकः कार्योऽनिरुद्धो भगवान्वराहः॥
रुद्धा न यस्य क्वचिदेव शक्तिः समस्तपापापहरस्य राजन् ॥११॥
इति श्रीवि० ध० तृ० ख० मा० व० सं० वराहरूपनिर्माणो नामैकोनाशीतितमोऽध्यायः ॥७९॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP