संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३४८

खण्डः ३ - अध्यायः ३४८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच॥
वसुना वसुवेशेन वाग्मिना विष्णुरीडितः॥
उवाच प्राञ्जलिं प्रह्वं पार्थिवं पुरतः स्थितम् ॥१॥
वासुदेव उवाच॥
नानृतं नृप वक्तव्यं प्राणैः कण्ठगतैरपि॥
धर्मप्रश्नो न वक्तव्यस्तथैकेन विशेषतः ॥२॥
बहुज्ञेनापि धर्मज्ञ धर्मकामेन कर्हिचित्॥
दुर्विज्ञेयास्तथा धर्माः सूक्ष्मा राजन्दुरन्वयाः ॥३॥
तस्मान्नैकेन वक्तव्याः कदाचिदपि जानता॥
उक्तानृतं महत्प्राप्तं त्वया कृच्छ्रं नराधिप ॥४॥
गतिभ्रंशस्तथैवाप्ता देवयज्ञार्थवादिना॥
मम भक्तोऽसि सततं तेन ते निष्कृतिः कृता ॥५॥
कालेनाल्पेन कल्पेन या न शक्या सुरासुरैः॥
गच्छ पालय राज्यं त्वं तथैवाविचलो भव ॥६॥
नावमानं त्वया कार्यं ब्राह्मणानां कथञ्चन॥
ब्राह्मणो हि महद्भूतं विज्ञेयं दैवतं परम् ॥७॥
मार्कण्डेय उवाच॥
एवमुक्त्वा वसुं विष्णुस्तत्रैवादर्शनं गतः॥
तार्क्ष्येण सहितो राजन्विस्मितश्चाभवद्वसुः ॥८॥
राज्यं चावाप भूयोऽपि खेचरत्वं तथैव च॥
ततः सभाजितश्चापि देवैः सर्वैः समागतैः ॥९॥
एवं स देवेन हि भक्तियुक्तो रसातलस्थो वसुधाधिपेशः॥
भयात्सुघोरात्प्रविमुच्य युक्तो राज्येन गत्वा नभसस्तथैव ॥१०॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वसूपाख्यानं नामाष्टचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥३४८॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP