संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०३१

खण्डः ३ - अध्यायः ०३१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
भावाध्यायमतो वच्मि तन्मे निगदतः शृणु॥
हासाद्याः कथिता भावाः पञ्चाशत्त्वेकवर्जिताः ॥१॥
परचेष्टानुकरणाद्यद्धास्यमुपजायते॥
स्मितहासाभिहसितैरभिनेयस्य पण्डितैः ॥२॥
इष्टार्थविषयप्राप्तौ रतिरित्युपजायते॥
सौम्यत्वादभिनेया सा वाङ्माधुर्यादिभिस्तथा ॥३॥
इष्टबन्धुवियोगेन धननाशेन पार्थिव॥
शोको भवति तस्य स्याद्रुदिताभिनयक्रिया ॥४॥
क्रोधश्चतुःप्रकारश्च कर्तव्यो नाट्ययोक्तृभिः॥
रिपुजो गुरुजश्चैव भृत्यजः प्रणयोद्भवः ॥५॥
निर्यन्त्रितः स शत्रूणां गुरूणां स्वेदसंयुतः॥
भृत्यानां च दयालुः स्यात्स्त्रीणां च प्रणयोद्भवः ॥६॥
कर्मातिशयनिर्वृत्तौ विस्मयो हर्षसंभवः॥
सिद्धिस्थाने त्वसौ साध्यो रोमाञ्चहसनादिभिः ॥७॥
असौ मोहाभिनिर्वृत्तौ व्यवसायनयात्मकः॥
उत्साहस्त्वभिनेयः स्यादप्रमादक्रियादिभिः ॥८॥
स्वापराधसमुद्भूतं भयं नामेह जायते॥
वेपथुत्रासपतनैरभिनेयस्य सम्भ्रमैः ॥९॥
बीभत्सदर्शनाद्यैस्तु जुगुप्सा नाम जायते ॥१०॥
उद्वेजनैस्सहृल्लेखैरभिनेयो विकूणनैः॥
दारिद्र्येष्टविनाशे च निर्वेदो नाम जायते ॥११॥
परस्परविनिःश्वासैस्तस्याभिनयनक्रिया॥
वान्ते विरक्ते श्रान्ते च ग्लानिः स्यात्तपसा तथा ॥१२॥
मन्दाक्रमणकम्पाद्यैः क्षामत्वेनं च दर्शयेत् ॥१३॥
चौर्यादिभिर्गृहीतस्य शङ्का नामेह जायते॥
आकारावरणं तस्याः कार्यं दिगवलोकनम्॥
परापराधसम्भूता असूया नाम जायते ॥१४॥
गुणनाशनविद्वेषैः साभिनेया तथा बुधैः॥
मद्योपयोगेन मदो जायते च त्रिभिस्तथा ॥१५॥
उत्तमाधममध्यत्वात्पुरुषाणां स्वभावतः॥
दृग्भ्रमेणोत्तमानां स्यान्मध्यानां वाक्प्रलापतः ॥१६॥
अधमानां च पतनैरसम्बद्धपरिक्रमैः॥
आयासेनाधमनाञ्च श्रमो नामेह जायते ॥१७॥
गात्रमर्दनविश्वासजृम्भणैस्तत्प्रयोजयेत्॥
गर्वेण खेदाद्रागेण ह्यालस्य स्यात्स्वभावतः ॥१८॥
तस्य प्रयोगः कर्तव्यः शयनासनसेवनात्॥
दौर्गत्येन मनस्तापाद्दैन्यं नामेह जायते ॥१९॥
हृदयस्य वितर्केण तस्य त्वभिनयो भवेत्॥
अस्थाने तस्करान्दृष्ट्वा त्रासनैर्विविधैस्तथा ॥२०॥
तत्प्रतीकारशून्यस्य मोहः समुपजायते॥
व्यसनेनाभिघातेन वैरानुस्मरणेन च ॥२१॥
सर्वेन्द्रियाणां मोहेन स तु कार्यः प्रयोक्तृभिः॥
स्मरणात्पूर्ववृत्तानां स्मृतिर्नामेह जायते ॥२२॥
भृशमुत्क्षेपणात्तस्याः प्रयोगः कार्यलोलनात्॥
लोकं वृत्तान्तविज्ञानाद् वृत्तिर्नामेह जायते ॥२३॥
प्रयोज्यो लब्धभोगेन अलब्धस्य विवर्जितम्॥
क्रीडा नामेह भवति चापल्याद्धर्षसंभवा ॥२४॥
क्रीडनेन प्रयोज्या सा गुरुवाक्यप्रतिक्रमैः॥
कृताकार्यस्य राजेन्द्र व्रीडा नामेह जायते ॥२५॥
अधोमुखेन सा कार्या मूले स्वीकरणेन च॥
ज्ञेया चपलता राजन्न विचार्या क्रियावता ॥२६॥
अयमेव प्रयोगस्य तथैव समुदाहृतः ॥
मनोरथानां लाभे तु हर्षो नामेह जायते ॥२७॥
सुखप्रसादरोमाञ्चप्रस्वेदैर्दर्शयेद् बुधः॥
सम्भ्रमाज्जायते राजन्नावेग इति सर्वदा ॥२८॥
आः शब्दैः सहसानर्था दर्शनीया बुधैस्तु ते॥
विषादस्य समुत्पत्तिः कार्यनाशेन जायते ॥०९॥
निद्रानिःश्वसितव्याजैः साभिनेया तथा भवेत्॥
उत्कण्ठाकरणैः सर्वैरौत्सुक्यं नाम जायते ॥३०॥
आलस्यगुरुगात्रत्वे ध्यानेनाभिनवैश्च तत्॥
रात्रिजागरणालस्यमदैर्निद्रेह जायते ॥३१॥
नेत्राभिमर्दनात्कार्या जृम्भणा गात्रगौरवात्॥
अपस्मारस्तु भवति देवादीनां प्रकोपतः ॥३२॥
निःसंज्ञत्वं समूर्द्धानं तस्येहाभिनयो भवेत्॥
निद्रासमर्थं सुप्तत्वं स्वपनं तत्र योजयेत् ॥३३॥
निद्रोच्छेदाद्धि बोधन्तु जृम्भणं तत्र योजयेत्॥
विद्याशौर्यधनादिर्यैरमर्षो नाम जायते ॥३४॥
शिरसः कम्पनैस्तस्य कार्यस्त्वभिनयो बुधैः॥
धार्ष्ट्यजैह्मयादिसम्भूतो ह्यवहित्थोभयात्मकः ॥३२॥
सर्वांगगोपनात्कार्योऽभिनयो नर्तनस्य च॥
चौर्यादिजातमर्थस्य ग्लानिः कार्या प्रयोक्तृभिः ॥३६॥
वातप्रायस्तथोन्मादो यथा ज्ञेयो वियोगजः॥
असच्चेष्टाप्रलापेन तस्याभिनयकारणम् ॥३७॥
व्याधिभिर्वा प्रहारैर्वा मरणं नाम जायते॥
कर्तव्योभिनयस्तस्य मूढेन्द्रियविचेष्टनैः ॥३८॥
महाभैरवनादाद्यैस्त्रासः समुपजायते॥
संक्षिप्ताङ्गप्रकम्पाद्यैस्तस्य त्वभिनयो भवेत् ॥३९॥
विचारणार्थे संदेहः कार्यो भूक्षेपकम्पनैः॥
क्रोधोऽपराधाद्भवति क्रोधाभिनयदर्शनः ॥४०॥
भयोपराधजो ज्ञेयो दृग्भयाभिनयात्मकः॥
मनोरथाप्तिजो हर्षो रोमाञ्चेन प्रदर्शयेत् ॥४१॥
भीतक्रोधश्च उभये रोमाञ्चस्य समुद्भवः॥
स्वरभेदो भयाद्रौक्ष्यात्स्वरभेदेन दर्शयेत् ॥४२॥
शोकानन्दसमुद्भूतमश्रु स्याद्रोदनेन तु॥
वर्णावरत्वाद्विज्ञेयं वैवर्ण्यं नाट्ययोक्तृभिः ॥४३॥
वैवर्ण्यं नाभिनेतव्यं प्रयत्नात्तद्धि दुष्करम्॥
ग्लानिः शङ्काभ्यसूया च श्रमश्चपलता तथा ॥४४॥
रोमाञ्चहर्षे निद्रा च उन्मादो मद एव च॥
स्वेदश्चैव वहित्थश्च भावा हास्यरसे स्मृताः ॥४५॥
आलस्योग्र्यजुगुप्साभिर्भावा हि परिवर्जिताः॥
उद्भावयन्ति शृङ्गारं रसमास्वाद्यसंज्ञकम् ॥४६॥
वेदस्यैव च चिन्ता च दैन्यग्लान्यश्रुपातनम्॥
जडता मरणं चैव व्याधिश्च करुणारसे ॥४७॥
असम्मोहस्तथोन्मादो विषादो मद एव च॥
मृत्युर्व्याधिर्भयं चैव भावा बीभत्ससंश्रयाः ॥४८॥
स्तम्भः स्वेदश्च रोमाञ्चो जुगुप्सा विस्मयस्तथा॥
प्रवेगो जडता हर्षोऽसूया दैवाद्भुते रसे ॥४९॥
स्वेदश्च वेपथुश्चैव रोमाञ्चो गद्गदस्तथा॥
मतिश्चैव तथोग्रत्वममर्षो मद एव च ॥५०॥
रोमाञ्चः स्वरभेदश्च क्रोधोऽसूया धृतिस्तथा॥
गर्वश्चैव वितर्कश्च वीरे भावा भवन्ति वै ॥५१॥
ये चान्ये सात्त्विका भावा नानाभिनययोनिजाः॥
रसेष्वेतेषु ते सर्वे विज्ञेया नाट्यकोविदैः ॥५२॥
बहूनां समवेतानां रूपं यस्य भवेद्बहु॥
स मन्तव्यो रसः स्थायी शेषाः सञ्चारिणः स्मृताः ॥५३॥
शृङ्गारं त्रिविधं विन्द्याद्वा नेपथ्यक्रियात्मकम्॥
अङ्गनेपथ्यभावश्च हास्यरौद्रौ प्रकीर्तितौ ॥५४॥
धर्मार्थबन्धुघातेन करुणस्त्रिविधः स्मृतः॥
युद्धवीरं दयावीरं दानवीरं तथैव च ॥५५॥
रसं वीरमिति प्राहुस्तज्ज्ञास्त्रिविधमेव च॥
व्याजत्रासापराधैश्च त्रिधा विद्याद्भयानकम् ॥५६॥
न ह्येकरसजं काव्यं किञ्चिदस्ति प्रयोगजम्॥
भावो वापि रसो वापि प्रवृत्तिर्वृत्तिरेव च ॥५७॥
एकोनपञ्चाशदिमे समग्रा भावव्यवस्था गदिता मया ते॥
युक्त्या च ये यत्र रसे नियुक्ताः प्रोक्तं तदप्यत्र नरेन्द्रचन्द्र ॥५८॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे एकोनपञ्चाशद्भावनिरूपणो नामैकत्रिंशत्तमोऽध्यायः ॥३१॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP