संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३३९

खण्डः ३ - अध्यायः ३३९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


ऋषय ऊचुः॥
अतः परं द्विजश्रेष्ठ वदास्माकमतंद्रितः॥
वने निवसतां धर्मं धर्ममाश्रमिणामपि ॥१॥
हंस उवाच॥
गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः॥
अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ॥२॥
पुत्रेषु भार्यां निक्षिप्य तया वानुगतो वने॥
अग्नीनुपचरन्नित्यं वन्यमाहारमाहरेत् ॥३॥
यथाहारो भवेत्तेन पूजयेत्पितृदेवताः॥
तेनैव पूजयेद्विद्वानतिथिं समुपागतम् ॥४॥
ग्रामादाहृत्य वाश्नीयाद्वासानष्टौ समाहितः॥
स्वाध्यायं च तथा कुर्याज्जटाश्च बिभृयात्तथा ॥५॥
तपसा शोषयेन्नित्यं तथा चैव कलेवरम्॥
आर्द्रवासास्तु हेमंते ग्रीष्मे पञ्चतपास्तथा ॥६॥
प्रावृष्याकाशशायी च नक्ताशी च तथा भवेत्॥
चतुर्थकालिको वा स्यात्षष्ठकालिक एव वा ॥७॥
कृच्छ्रैर्वापि नयेत्कालं ब्रह्मचर्यं च पालयेत्॥
एवं नीत्वा वने कालं द्विजो ब्रह्माश्रमी भवेत् ॥८॥
वने विमुच्याथ शरीरधातून्प्राप्नोति लोकान्प्रपितामहस्य॥
पुनात्यतीतान्पुरुषांश्च सप्त भविष्यतो यानथ सप्त विप्राः ॥९॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० वज्रसंवादे मुनीन्प्रति हंसगीतासु वानप्रस्थधर्मवर्णनोनामैकोनचत्वात्रिंशदधिकत्रिशततमोऽध्यायः ॥३३९॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP