संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३५२

खण्डः ३ - अध्यायः ३५२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


नरनारायणावूचतुः॥
आदावेव सरःसरित्प्रस्रवणसमीपगृहोपवनपर्वतमस्तकानामन्यतमे हृद्ये देशे सुसमं मनोहरं हस्तमात्रं मण्डलकमुपकल्पयेत्॥
तत्र मध्येऽष्टपत्रं पद्ममालिखेत् ततस्तूदाहृतचतुरस्रया चतुर्द्वारलेखया विभजेत् ।
ततः पद्मकर्णिकामध्ये श्वेतं शतपत्रं पद्मं ध्यायेत् ।
तत्कर्णिकोपर्यर्कमण्डलम् तदुपरि चन्द्रमण्डलम् तदुपरि अग्निमण्डलम्तन्मध्ये परमं पुरुषम् अशरीरम् अगन्धम् अरसम् अरूपम् अस्पर्शम् अशब्दं सर्वगं प्लुतान्तम् ॐकारं विन्यसेत् ।
कमलपूर्वदले अकारं वासुदेवं न्यसेत् श्वेतवर्णं ध्यायेत् दक्षिणे आकारं संकर्षणं विन्यसेत् पद्मपत्राभं तं च ध्यायेत्।
पश्चिमे दले ओङ्कारे प्रद्युम्नं विन्यसेत् पीतवर्णं च ध्यायेत्॥
उत्तरे दले अकारमनिरुद्धं विन्यसेत्कृष्णवर्णञ्च ध्यायेत्॥
ऐशाने दले तदिति ब्रह्माणं विन्यसेत् पद्मपत्राभं ध्यायेत्॥
सूर्यकोटिसमं ध्यायेत्॥
वायव्यदले वराहं विन्यसेत्।
भिन्नाञ्जनसमं ध्यायेत्॥
प्रपूर्वद्रारे ॐ कें टें यें एतान्यक्षराणि वैनतेयं विन्यसेत्॥
हेमवर्णं च ध्यायेत्॥
दक्षिणे द्वारे तेजोरथरतृचक्रं सुदर्शनं विन्यसेत् ।
वज्रनाभं सहस्रारं सूर्यकोटिसमप्रभं ध्यायेत्॥
पश्चिमद्वारे शार्ङ्गं विन्यसेत् ।
इन्द्रचापनिभं ध्यायेत्॥
स्वें वै ठें हें थें उत्तरे द्वारे अनिरुद्धं न्यस्येत् ।
सर्ववर्णं ध्यायेत् ।
वें णें क्षें क्षें विदिक्षु पाञ्चजन्यं शंखं न्यसेत् ।
शशाङ्कवर्णं ध्यायेत्॥
घें हें भें हें श्रियं पद्मं दक्षिणतो न्यसेत् ।
शुक्लां ध्यायेत्॥
गें डें वें शें पद्मान्तरतः पुष्टिं न्यसेत् ।
श्वेतां ध्यायेत् ।
हें सें पुरतो वनमालां न्यसेत् ।
हें सें बहुवर्णां ध्यायेत्॥
ॐ चित्यैशान्यां नन्दकं न्यसेत् ।
आकाशवर्णं ध्यायेत्॥
ॐमित्याग्नेय्यां वर्म न्यसेत् ।
बहुवर्णं ध्यायेत्॥
ॐ क्षें लें श्रीवत्सं न्यसेत् ।
शुक्लां ध्यायेत्॥
ॐ छें ठें वायव्ये कौस्तुभं न्यसेत् आदित्यं दीप्तं ध्यायेत्॥
ततो मंडले बाह्यस्थां यथास्वदिशमोकारौकारौ दिक्पती शक्राग्नी यमनैर्ऋतवारुणपवनकुबेरानैशान्यां न्यसेत् ।
यथोक्तरूपं ध्यायेत्॥
ॐ नमो भगवते वासुदेवायेत्यन्तेन द्वादशाक्षरेण कर्णिकामध्ये पुरुषायार्घ्यपाद्याचमनीयानुलेपनपुष्पदीपधूपमधुपर्कनैवेद्यफलभक्ष्याणि निवेदयेत् । ॐनमो नारायणायेत्यथ वाष्टाक्षरेण मन्त्रेण ।
ॐ जितन्ते पुण्डरीकाक्ष नमस्ते विश्वभावन॥
नमस्तेस्तु हृषीकेश महापुरुष पूर्वज॥
इत्यनेन मंत्रेण पुरुषसूक्तेन वा ।
अथान्यान्दलनिविष्टान्देवान्यथाभिहितैर्मन्त्रैः पृथक्पृथगर्चयेद्् ।
अनेन विधिना यस्तु विष्णुमभ्यर्चयेन्नरः ।
सर्वान्संसाधयेदर्थान्कृतकृत्यो हि जायते ॥१८॥
कृत्वा व्याधिं व्याधितं भक्षयति न करोति न तदाप्नोति इदं त्वन्यत् ।
धन्यं यशस्यं पुण्यं च पवित्रं पापनाशनम्॥
आरोग्यं धनधान्यवर्द्धनं शत्रुघ्नं वशीकरणं यः पुरुषोऽनेन विधिना सततं देवमभ्यर्चयति सम्पत्तिं जनयति अथ वा तस्य न रोचते तदा श्वेतद्वीपमवाप्य अर्कमण्डलं भित्त्वा निरुणद्धि प्रद्युम्नसंकर्षणान्प्राप्नोति सुदेवत्वमवाप्य निष्कलत्वमाप्नोति॥
इति श्रीविष्णुधर्मोत्तरे तृ० खं० मा० व० सं० नारायणपूजनप्रकारवर्णनो नाम द्विप ञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥३५२॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP