संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०५९

खण्डः ३ - अध्यायः ०५९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच
अथातो रूपनिर्माणं वच्म्यहं भैरवस्य ते॥
लम्बोदरं तथा कुर्याद्वृत्तपिङ्गललोचनम् ॥१॥
दंष्ट्राकरालवदनं फुल्लनासापुटं तथा॥
कपालमालिनं रौद्रं सर्वतः सर्पभूषणम् ॥२॥
व्यालेन त्रासयन्तं च देवीं पर्वतनन्दिनीम्॥
सजलाम्बुदसंकाशं गजचर्मोत्तरच्छदम् ॥३॥
बाहुभिर्बहुभिव्याप्तं सर्वायुधविभूषणैः॥
बृहत्सालप्रतीकाशैस्तथा तीक्ष्णनखैः शुभैः ॥४॥
साचीकृतमिदं रूपं भैरवस्य प्रकीर्तितम्॥
महाकालस्य कथितमेतदेव च सन्मुखम् ॥५॥
देवी तु वामतः कार्या करे कार्यस्तु पन्नगः ।
न चास्य पुरतः कार्या देवी पर्वतनन्दिनी ॥६॥
शुक्ला न कार्या न तथास्य रक्ता समीपतो मातृगणप्रधाने॥
कार्यस्त्वथान्यः परिबर्हमस्य गणाश्च कार्या बहुरूपरूपाः ॥७॥

इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डयवज्रसंवादे भैरवरूपनिर्माणो नामैकोनषष्टितमोऽध्यायः ॥५९॥

N/A

References : N/A
Last Updated : December 26, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP