संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १७४

खण्डः ३ - अध्यायः १७४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
हिमवान्हेमकूटश्च निषधो नील एव च॥
श्वेतश्च शृङ्गवान्मेरुर्माल्यवान्गन्धमादनः ॥१॥
नवैताञ्शैलनृपतीन्नवम्यां पूजयेन्नरः॥
उत्तराः कुरवः पुण्या रम्यो हैरण्वतस्तथा ॥२॥
भद्राश्वः केतुमालश्च तथैव च इलावृतः॥
हरिवर्षः किंपुरुषो वर्षो भारत एव च ॥३॥
पूजनीयास्तथैवैते यथा संस्थानतो नृप॥
शुक्लपक्षनवम्यां तु चैत्रादारभ्य पार्थिव ॥४॥
सोपवासेन धर्मज्ञ गन्धमाल्यान्नसंपदा॥
जम्बूद्वीपस्य संस्थानं व्रतान्ते रजतं नरः ॥५॥
तुलाप्रमाणं दद्यात्तु सर्वान्कामानुपाश्नुते॥
अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥६॥
मानुष्यमासाद्य तु चक्रवर्ती नृपो भवेद्देवगणाभिरामः॥
चिरं च कालं वसुधां प्रशास्य लोकानवाप्नोति ततोपि कामान् ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पर्वताष्टमीव्रतवर्णनो नाम चतुस्सप्तत्युत्तरशततमोऽध्यायः ॥१७४॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP