संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १४२

खण्डः ३ - अध्यायः १४२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव॥* चतुर्व्यूह
सर्वात्मनां तु कर्तव्या यथा पूजा जगद्गुरोः॥
चैत्रशुक्लचतुर्थ्यां तु सोपवासो जितेन्द्रियः ॥१॥
चतुर्थ्यां वासुदेवस्य कृत्वा संपूजनं शुभम॥
काञ्चनं दक्षिणां दद्याद्द्विजाय ब्रह्मचारिणे ॥२॥
तथा सङ्कर्षणं देवं पूजयित्वा जगद्गुरुम्॥
वैशाखे तु गृहस्थाय दद्याच्छय्यां सुसंस्कृताम् ॥३॥
संपूज्य देवं प्रद्युम्नं ज्येष्ठे मासि यथाविधि॥
वनस्थाय तथा दद्यात्फलमूलं सगोरसम् ॥४॥
अनिरुद्धं तथाषाढे पूजयित्वा जगद्गुरुम्॥
दद्यादलाबुपात्रं च योगस्थाय द्विजातये ॥५॥
इत्येवं पारणं प्रोक्तं स्वर्गलोके महीयते॥
द्वितीये पारणे प्राप्ते शक्रलोके महीयते ॥६॥
सालोक्यमायात्यथ केशवस्य प्राप्ते तृतीये त्वथ पारणे च॥
इत्याश्रमाख्यं व्रतमुत्तमं ते मयेति कल्मषनाशकारि ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिकल्पे आश्रमव्रतवर्णनो नाम द्विचत्वारिंशदुत्तरशततमोऽध्यायः ॥१४२॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP