संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १४८

खण्डः ३ - अध्यायः १४८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव॥
शङ्खचक्रगदापद्मश्चतुरात्मा प्रकीर्तितः ॥१॥
वासुदेवः स्मृतः शङ्खश्चक्रं संकर्षणस्तथा॥
प्रद्युम्नश्च गदा पद्ममनिरुद्धो जगद्गुरुः ॥२॥
श्रावणादिषु मासेषु बहिः स्नानस्तु भक्तभुक्॥
तेषां संपूजनं कुर्यात्प्रतिमासमतः क्रमात् ॥३॥
गन्धमाल्य नमस्कारधूपदीपान्नसंपदा॥
ततस्तु कार्तिकस्यान्ते समाप्ते तु तथा व्रते ॥४॥
ब्राह्मणान्भोजयेद्भक्त्या दद्याच्छक्त्या च दक्षिणाम्॥
कांस्यपात्रं च सघृतं ससुवर्णं तथैव च ॥५॥
कृत्वा व्रतं मासचतुष्टयं तु प्राप्नोति लोकं त्रिदशेश्वरस्य॥
मानुष्यमासाद्य तथेह पश्चाद्वसुन्धरेशो भवतीह वीरः ॥६॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिव्रतकल्पे आयुधव्रतवर्णनो नामाष्टाचत्वारिंशदुत्तरशततमोऽध्यायः ॥१४८॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP