संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १४९

खण्डः ३ - अध्यायः १४९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
इदमन्यत्प्रवक्ष्यासि चतुर्मूर्तिव्रतं तव॥
त्रिरात्रोपोषितः सम्यग्वसन्ते विषुवद्दिने ॥१॥
पूजां कृत्वा यथाशक्ति वासुदेवस्य शत्रुहन्॥
ततो मासत्रयं नित्यं वासुदेवं तु पूजयेत ॥२॥
तच्च मासत्रयं तिष्ठेत्फलाहारो विचक्षणः॥
ततः शारदमासाद्य धर्मज्ञं विषुवद्दिनम् ॥३॥
त्रिरात्रोपोषितः स्नात्वा प्रद्युम्नं पूजयेत्प्रियम्॥
होमं कृत्वा ततोश्नीयाद्दत्त्वा दानं च शक्तितः ॥४॥
प्राणयात्रां तु कुर्वीत यावकेन महामते॥
व्रतावसानमासाद्य वासन्तं विषुवद्दिनम्॥
ब्राह्मणं भोजयेच्छक्त्या दद्याद्विप्रेषु दक्षिणाम् ॥५॥
काञ्चनं रजतं वस्त्रं गां च यादवनन्दन॥
एतत्संवत्सरं कृत्वा व्रतं नाम हरिप्रियम् ॥६॥
स्वर्गलोकमवाप्नोति बहुकालमसंशयम्॥
ततोऽश्विलोकान्प्राप्नोति वसुलोकं ततो द्विजः ॥७॥
विश्वेषां चैव देवानां तथैवाङ्गिरसां द्विजः॥
रुद्राणामथ साध्यानां भृगूणां सवितुस्तथा ॥८॥
मरुतामपि धर्मज्ञ शिशिरांशोस्तथैव च॥
प्राप्नोति देवलोकं च कामचारी विहङ्गमः ॥९॥
प्राप्नोति लोकं स हुताशनस्य शक्रस्य देवस्य तथा हरस्य॥
लोकं समासाद्य पितामहस्य ततः स विष्णोः पुरुषः प्रयाति ॥१०॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिव्रतकल्पे फलाहारहरिप्रियव्रतवर्णनो नामैकोनपञ्चाशदुत्तरशततमोऽध्यायः ॥१४९॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP