संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०४५

खण्डः ३ - अध्यायः ०४५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
सौवर्णं राजतं ताम्रमारकूटमयं तथा॥
द्विहस्तमात्रं कर्तव्यं कमलं चारुकेसरम् ॥१॥
तस्याष्टभागाः कर्तव्याः कर्णिका नृप वर्तुला॥
अष्टभागोच्छ्रिता चैव पत्रे न्यस्ता तु कारयेत् ॥२॥
एकतोनत्रिपञ्चाशत्कर्णिकायां तु कारयेत्॥
वर्तुला कर्णिकाच्छेदा यवमात्रसमन्विताः ॥३॥
षोडशांशेन कर्तव्यं तद्धि विस्तरतस्तथा॥
शेषं पत्रैस्तु सुस्निग्धैः पूरयेदष्टभिस्तथा ॥४॥
तस्य प्रतिष्ठा कर्तव्या तत्र देवांस्तु पूजयेत्॥
ब्रह्माणं पूजयेत्तत्र तत्र सम्पूजयेद्धरिम् ॥५॥
तत्र सम्पूजयेद्रुद्रं तत्र सम्पूजयेच्छ्रियम्॥
तत्र सम्पूजयेच्छक्रं देवराजं जगत्पतिम ॥६॥
तत्र सम्पूजयेत्सूर्यं शशिनं तत्र पूजयेत्॥
यमेव मनसोद्दिश्य देवं पद्मं प्रतिष्ठितम्॥
तमेव पूजयेत्तत्र नान्यं देवं कथञ्चन ॥७॥
पद्मस्य रूपं कथितं तवैतत्पद्मं समग्रा वसुधा निरुक्ता॥
तत्रार्चनं कार्यमथेश्वराणां तत्रार्चितास्ते वरदा भवन्ति ॥८॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पद्मरूपनिरूपणो नाम पञ्चचत्वारिंशत्तमोऽध्यायः ॥४५॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP