संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २२५

खण्डः ३ - अध्यायः २२५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
व्रतं कंचिन्ममाचक्ष्व सर्वकल्मषनाशनम्॥
व्रतानामुत्तमं ब्रह्मन्पवित्रं पुण्यवर्धनम् ॥१॥
मार्कण्डेय उवाच॥
रोचं तु पौरुषं प्राप्य सोपवासो जितेन्द्रियः ॥२॥
पौरुषेण च सूक्तेन स्नातः प्रयतमानसः॥
तेनैव तर्पणं कृत्वा जाप्यं च मनुजोत्तम ॥३॥
अष्टपत्रस्य पद्मस्य मध्ये हंसं जनार्दनम्॥
पौरुषेण च सूक्तेन सत्कृतं पूजयेन्नरः ॥४॥
पुष्पैर्भूयस्तथा धूपैः फलैश्च तदनन्तरम्॥
दीपेन च ततो राजन्नैवेद्येन ततः परम् ॥५॥
पौरुषेण च सूक्तेन ततो वह्निं समर्चयेत्॥
ततस्तु धेनुर्दातव्या कर्मान्ते च पयस्विनी ॥६॥
संवत्सरमिदं कृत्वा व्रतं परम पावनम्॥
सर्वान्कामानवाप्नोति ये दिव्या ये च मानुषाः ॥७॥
अश्वमेधमवाप्नोति राजसूयं च विन्दति॥
भुक्त्वा भोगांस्ततः पश्चान्मोक्षमाप्नोत्यसंशयम् ॥८॥
माङ्गल्यमेतत्परमं पवित्रं श्रीवर्धनं धर्मविवर्धनं च॥
व्रतोत्तमं पापहरं नृलोके हंसव्रताख्यं पुरुषेण कार्यम् ॥९॥
इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे हंसव्रतनिरूपणो नाम पञ्चविंशत्युत्तरद्विशततमोऽध्यायः ॥२२५॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP