संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २७४

खण्डः ३ - अध्यायः २७४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
बहूपकरणा यज्ञा नानासम्भारविस्तराः॥
न ते शक्या दरिद्रेण प्राप्तुं धर्मभृतांवराः ॥१॥
दरिद्रैरप्यथावाप्तुं शक्यं यज्ञफलं द्विजाः॥
सदोपवासनिरतैस्तस्मादुपवसेन्नरः ॥२॥
यावन्मासोपवासन्तु तावत्तप इहोच्यते॥
अनाशकमत ऊर्ध्वं द्विजातीनां प्रकीर्तितम् ॥३॥
षष्ठकालाशनं शूद्रे तपः परमिहोच्यते॥
वर्णसंकरजातीनां दिनमेकं प्रकीर्तितम् ॥४॥
षष्ठकालात्परं शूद्रस्तपः कुर्याद्यथा क्वचित्॥
राष्ट्रे हानिस्तदा ज्ञेया राज्ञश्चोपद्रवो महान् ॥५॥
शूद्रस्तु षष्ठकालाशी यावच्छक्त्या तपश्चरेत्॥
मासोपवासादर्वाग्वा तथा शक्त्या द्विजश्चरेत् ॥६॥
नास्ति गङ्गासमं तीर्थं नास्ति कृष्णसमा गतिः॥
गायत्रीसदृशं जप्यं होमं व्याहृतिभिः समम् ॥७॥
अन्तर्जले तथावाप्तिः पापघ्नमघमर्षणात्॥
अहिंसासदृशं पुण्यं दानात्संसवनं परम् ॥८॥
एवमेव द्विजा नास्ति तपो नानशनात्परम्॥
उपवासैः प्रतप्तानां दीर्घं सुखमनन्तरम् ॥९॥
उपवासतपःशीला नाकलोकमुपागताः॥
मोदन्ते त्रिदशे सार्धं यथा देवगणास्तथा ॥१०॥
पापानां पापशमनं सतामीप्सितकामदम्॥
उपवासो विनिर्दिष्टो विशेषाद्देवताश्रयः ॥११॥
उपवासप्रसक्तानां प्रसादसुमुखाः सुराः॥
यथेच्छमपि जायन्ते नात्र कार्या विचारणा ॥१२॥
वासुदेवमथाश्रित्य नरः सम्यगुपोषितः॥
अनन्तफलमाप्नोति त्वनन्तः संयतो हरिः ॥१३॥
वासुदेवमथाश्रित्य ब्राह्मणैर्यैरुपोषितम्॥
तेद्यापि न निवर्तन्ते समुद्रेभ्य इवापगाः ॥१४॥
उपोषिता ये विधिवन्मनुप्यास्ते नाकमासाद्य सुरोषमानाः॥
देवाङ्गनाभिः सहिता मनुष्या भवन्ति लोके गतसर्वदुःखाः ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासूपवासफ लवर्णनो नाम चतुःसप्तत्युत्तरद्विशततमोऽध्यायः ॥२७४॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP