संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १२१

खण्डः ३ - अध्यायः १२१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
कस्मिन्देशे महाभाग प्रादुर्भावं कमर्चयेत॥
एतन्मे संशयं छिन्धि त्वं हि सर्वं विजानसे ॥१॥
मार्कण्डेय उवाच॥
ब्रह्माणं पुष्करे देवं प्रयागे योगशायिनम ॥
कालंजरे महादेवं शक्रतीर्थे शतक्रतुम ॥२॥
सिन्धुकूले वराहं च शालिग्रामे त्रिविक्रमम् ॥
काश्मीरेषु तथा मत्स्यं सागरे वडवानलम् ॥ ३ ॥
अयोध्यायां तथा रामं नैमिषे धर्ममेव च॥
कर्णाटे चाश्वशिरसं मद्रदेशे नृकेसरिम् ॥४॥
शत्रुघ्नं मथुरायां च दण्डकेषु च लक्ष्मणम्॥
भरतं केकयेष्वेव यमुनायां तथा बलिम् ॥५॥
प्राग्ज्योतिषेऽनिरुद्धं च प्रद्युम्नं दक्षिणापथे॥
तथा भार्गवरामं च मलये यदुनन्दनम् ॥६॥
पाञ्चालविषये राजन्पृथुं वैन्यं च पूजयेत॥
तमसातीरमासाद्य वाल्मीकिं पूजयेन्नरः ॥७॥
वाराणस्यां परे पारे व्यासं यदुकुलोद्वह॥
गङ्गाकूले महाराज वासुदेवं च पूजयेत् ॥८॥
गजेन्द्रमोक्षणं देवमङ्गेषु यदुनन्दन॥
द्वारवत्यां तथा कृष्णं नरनारायणावुभौ ॥९॥
बदर्याश्रममासाद्य पूजयेत्तु विचक्षणः॥
कुरुक्षेत्रेपि धर्मज्ञ रामं भृगुकुलोद्वहम ॥१०॥
अथ वा यादवश्रेष्ठ रथस्थौ कृष्णफाल्गुनौ॥
हंसप्रपतने हंसं मत्स्यं मत्स्येषु यादव ॥११॥
गयाशीर्षे वराहं तु मूलस्थाने दिवाकरम्॥
प्रभासे च तथा सोमं हिमवत्यलकाधिपम ॥१२॥
ऐरावत्यां भोगमयं सरय्वां राममेव च॥
भोगिभोगासनासीनं सरयूतटसंस्थितम ॥१३॥
सर्वमूर्तिधरं देवं सर्वत्राप्यथ वार्चयेत॥
सर्वत्र सर्व शक्तिर्हि सर्वात्मा स निगद्यत ॥१४॥
सर्वत्र देवः स तु सर्वशक्तिः सर्वेश्वरः सर्वशरीरसंस्थः॥
पूज्यः सदा सर्वफलप्रदाता लोके सकामान्विदधाति राजन् ॥१५॥
इति श्रीविप्णुधर्मौत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे श्रीविष्णुदेशाधिदेशप्रादुर्भावपूजावर्णनो नामैकविंशत्युत्तशततमोऽध्यायः ॥ १२१॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP