संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ११८

खण्डः ३ - अध्यायः ११८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
कांकां विप्णोस्तनुं भक्तः केन कामेन पूजयेत॥
एतन्मे संशयं छिन्धि त्वं हि सर्वं विजानसे ॥१ ॥
मार्कण्डेय उवाच॥
सर्वकामप्रदं देवं चतुर्मूर्तिं तु पूजयेत्॥
पूजयेदनिरुद्धन्तु धर्मकामो नरः सदा ॥२॥
तथा सङ्कर्षणं देवमर्थकामस्तु पूजयेत॥
कामकामोऽपि राजेन्द्र प्रद्युम्नं पूजयेद्विभुम् ॥३॥
पूजयेन्मोक्षकामस्तु वासुदेवं जगत्प्रभुम्॥
पुत्रकामस्तथा राजन्पद्मनाभं च पूजयेत् ॥४॥
तथाश्वशिरसं देवं विद्याकामस्तु पूजयेत्॥
भोगानामाप्तकामस्तु पूजयेद्भोगशायिनम ॥५॥
भोगिभोगासनासीनं स्थानकामस्तु पूजयेत्॥
मत्स्यं संपूजयेद्देवं धान्यकामो नरः सदा ॥६॥
तथैवारोग्यकामस्तु कूर्मदेवं च पूजयेत्॥
ज्ञ कामस्तथा हंसं नृसिंहमथ वा विभुम् ॥७॥
विद्याकामोऽथ वाल्मीकिं व्यासं वाप्यथ पूजयेत्॥
सांख्यज्ञानपरिज्ञानहेतवे कपिलं तथा ॥८॥
भूतिकामो वराहं तु नृवराहमथार्चयेत्॥
व्यवहारे रणे द्यूते जयकामस्तथा पृथक् ॥९॥
धर्मकामस्तथा धर्मं ब्रह्माणं चापि पूजयेत॥
शत्रूणां नाशकामस्तु महादेवं तु पूजयेत् ॥१०॥
पूजयेद्भार्गवं रामं प्रतिज्ञापारणेच्छया॥
अथ वा राजशार्दूलं रामं दशरथात्मजम् ॥११॥
श्रीकामस्तु महाराज श्रीसहायं च पूजयेत्॥
बलकामस्तथा देवं बलभद्रं प्रपूजयेत् ॥१२॥
तमेव राजशार्दूलं कृषिकर्मप्रसिद्धये॥
सर्वकामप्रदं देवं यथेष्टीं तनुमास्थितम् ॥१३॥
पूजयेत्सर्वशक्तित्वात्सर्वकामफलप्रदान्॥
निराशिषः पूजयितो वरेण्यं देवेश्वरं वासुदेवं पुराणम्॥
यथेष्टदेहोपगतं नृवारं स्थानं तदुक्तं परमं हि यत्स्यात् ॥१४॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तत्तत्कामपूजनवर्णनो नामाष्टादशोत्तरशततमोऽध्यायः ॥११८॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP