संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०४१

खण्डः ३ - अध्यायः ०४१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
सत्यं च वैणिकं चैव नागरं मिश्रमेव च॥
चित्रं चतुर्विधं प्रोक्तं तस्य वक्ष्यामि लक्षणम् ॥१॥
यत्किञ्चिल्लोकसादृश्यं चित्रं तत्सत्यमुच्यते॥
दीर्घाङ्गे सप्रमाणं च सुकुमारं सुभूमिकम ॥२॥
चतुरस्रं सुसम्पूर्णं न दीर्घं नोल्बणाकृतिम्॥
प्रमाणं स्थानलम्भाढ्यं वैणिकं तन्निगद्यते ॥३॥
दृढोपचितसर्वाङ्गं वर्तुलं नद्यनोल्बणम॥
चित्रं तं नागरं ज्ञेयं स्वल्पमाल्यविभूषणम् ॥४॥
चित्रमिश्रं समाख्यातं समासान्मनुजोत्तम॥
तिस्रश्च वर्तनाः प्रोक्ताः पत्राहैविकबिन्दुजाः ॥५॥
पत्राकृतिभी रेखाभिः कथितात्र च वर्तना॥
अतीव कथिता सूक्ष्मा तथाहैरिकवर्तना ॥६॥
तथा च स्तम्भनायुक्ता कथिता बिन्दुवर्तना॥
दौर्बल्यबिंदुरेखत्वमविभक्तत्वमेव च ॥७॥
बृहदण्डौष्ठनेत्रत्वमविरुद्धत्वमेव च॥
मानवाकारता चेति चित्रशेषाः प्रकीर्तिताः ॥८॥
स्थानप्रमाणभूलम्बो मधुरत्वं विभक्तता॥
सादृश्यं पक्षवृद्धिश्च गुणाश्चित्रस्य कीर्तिताः ॥९ ।
रेखा च वर्तना चैव भूषणं वर्णमेव च॥
विज्ञेया मनुजश्रेष्ठ चित्रकर्मसु भूषणम् ॥१०॥
रेखां प्रशंसन्त्याचार्या वर्तनां च विचक्षणाः॥
स्त्रियो भूषणमिच्छन्ति वर्णाढ्यमितरे जनाः ॥११॥
इति मत्वा तथा यत्नः कर्तव्यश्चित्रकर्मणि॥
सर्वस्य चित्तग्रहणं यथा स्यान्मनुजोत्तम ॥१२॥
दुरासनं दुरानीतं पिपासा चान्यचित्तता॥
एते चित्रविनाशस्य हेतवः परिकीर्तिताः ॥१३॥
स्वानुलिप्तावकाशा च निदेशं मधुका शुभा॥
सुप्रसन्नाभिगुप्ता च भूमिः स्याच्चित्रकर्मणि ॥१४॥
सुस्निग्धविस्पष्टसुवर्णरेखं विद्वान्यथादेशविशेषवेशम्॥
प्रमाणशोभाभिरहीयमान कृतं भवेच्चित्रमतीव चित्रम् ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृ० मा० सं० वर्तनो नामैकचत्वारिंशत्तमोऽध्यायः ॥४१॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP