संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ११६

खण्डः ३ - अध्यायः ११६

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
वैदिकेनेज्याविधानेन सात्त्वतोक्तेन दर्शनविधिहोमेन सप्ताहं प्रत्यहमर्चां कुर्यात् ।
ततः सप्तमेह्नि बृहत्स्नपनं कृत्वा कल्पकः कलशपाणिः या ओषधय इति तोरणान्यभिषिंचेत्॥
गन्धद्वारेणेत्यनुलेपनेनार्चयेत् ।
पुष्पवतीति पुष्पैः॥
अग्निर्मूर्धेति दीपेन ।
धूरसीति धूपेन।
सावित्राणि सावित्रस्येति नैवेद्येन॥
ततः प्रागुत्तरं ततः पूर्वं ततो दक्षिणतः पश्चिमे श्रीविष्णुगायत्र्या तोरणान्युद्धरेत्॥
सर्व एष ऋत्विजतोरणान्यादाय गजपृष्ठगा अश्वरथपृष्ठगा गोरथपृष्ठगाः शिबिकागता वा नदीं गच्छेयुः ।
तत्र च स्वस्ति न इन्द्र इति मन्त्रेणाक्षिपेयुः॥
भद्रङ्कर्णेति श्रीदेवतागृहं व्रजेयुः यश्चेह भगवानिति प्रविशेयुः॥
ततो भोगविधिपूर्वकेण सर्वेण प्रतिष्ठोक्तेन विधिना श्रीभगवन्तमन्वयेयुः ।
ततो भुक्तवत्सु विप्रेषु मुञ्चामि त्वेति मन्त्रेण यजमानस्य दीक्षाकरणं बद्धं मुञ्चेत्॥
कवचेन च रक्षणं कुर्यात्॥
तोरणोद्धरणवर्जं मासिमासि सप्ताहोक्तं विधिं कुर्यात॥
यावत्संवत्सरं नित्यमेवं सर्वकामदं कर्म तत्॥
प्रतिष्ठाकल्पमेतत्ते मयोक्तं पार्थिवोत्तम॥
सर्वपापहरं ज्ञेयमायुष्यमपराजितम्॥
अनेन विधिना कृत्वा स्थापनं शार्ङ्गिणो नरः॥
सर्वकामानवाप्नोति विष्णुलोकं च गच्छति॥
ओषध्यः पवनं वृक्षा यत्किंचिदुपयुज्यते॥
प्रतिष्ठायां हि तत्सर्वं विष्णुलोके महीयते॥
प्रतिष्ठां येऽपि पश्यन्ति क्रियमाणां नराधिप॥
अभिनन्दन्ति ये भक्तास्तेपि स्वर्गार्जिनो नराः॥
सात्त्वतोक्तेन विधिना नित्यमेव प्रतिष्ठितम्॥
पूजयेद्देवदेवेशं य इच्छेच्छाश्वतं पदम् ॥१॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे तोरणोद्धारविधिवर्णनो नाम षोडशोत्तरशततमोऽध्यायः ॥११६॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP