संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १०८

खण्डः ३ - अध्यायः १०८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥वव्र उवाच ॥
भगवन्सर्वदेवानां मूर्तयः परिकीर्तिताः॥
पञ्चभूतयुता यस्मात्तस्मात्तेषां भृगूत्तम ॥१॥
आवाहनविधिःप्रोक्तो यत्तद्युक्ततमं मतम्॥
आवाहिताः समायान्ति यत्र कामावसायिताम् ॥२॥
आश्रित्य महिमां प्राप्तिं लघिमां च तथा सुराः॥
विष्णुः सर्वगतो देवो महद्भ्योपि महत्तरः ॥३॥
सूक्ष्मेभ्यश्चातिसूक्ष्मश्च सर्वव्यापी जगन्मयः॥
नास्ति किञ्चिज्जगत्यस्मिन्यत्र नास्ति जनार्दनः ॥४॥
सदसच्च महाभाग तेन व्याप्तं महात्मना॥
आवाहनेन किं कार्यं तस्य सर्वगतस्य तु ॥५॥
महेंद्रिय महाभाग सर्वत्र परिपच्यते॥
एतन्मे संशयं छिन्धि त्वं हि सर्वविदुच्यसे ॥६॥
मार्कण्डेय उवाच॥
सर्वदेवगणा यद्वद्वज्र पिण्डितमूर्तयः॥
प्रादुर्भावगतोप्येवं देवो मधुनिषूदनः ॥७॥
पञ्चभूतयुता मूर्तिः सर्वा भवति मण्डिता॥
आद्यन्तमध्यसंयुक्ता सर्वस्यैव यदूत्तम ॥८॥
प्रादुर्भावगतो विष्णुर्यथा देवगणास्तथा॥
आहितः सन्निहितो भवतीति विनिश्चयः ॥९॥
देवस्य द्विविधा मूर्तिः परा चैव तथापरा॥
परायाः पौरुषी मूर्तिः पञ्चभूतविराजिता ॥१०॥
तया समूर्तिर्भवति सर्वगः परमेश्वरः॥
पुरुषेण विना लोके न किञ्चिदिह विद्यते ॥११॥
अनादिमध्यनिधनस्त्वप्रमेयतनुस्तथा॥
सर्वेन्द्रियमनाः शक्तिः सर्वतः स तथा नृप ॥१२॥
प्रादुर्भावगतस्यापि तस्य या सर्वशक्तिता॥
इच्छतः सा विनिर्दिष्टा न त्वेषानिच्छतो नृप ॥१३॥
पुरुषत्वे ह्यनन्तस्य या राजन्सर्वशक्तिता॥
निसर्गसिद्धा सा ज्ञेया सदा सर्वत्र यादव ॥१४॥
आवाहनमथात्रापि क्रियते यज्जगत्पतेः॥
नित्यं संनिहितस्यापि सर्वत्र परमेष्ठिनः ॥१५॥
केवलं कारणं तत्र मनसस्तुष्टिकारणम्॥
आवाहितो मया देवः स्थाने सन्निहितोऽपि च ॥१६॥
आवाहनं स्वतृप्त्यर्थं पुरुषस्य यथा स्थितम्॥
तथाप्यर्चा महाभाग स्वतुष्ट्यर्थं प्रयोजनम् ॥१७॥
नित्यतृप्तस्य किं तस्य कार्यं भवति चार्चया ॥१८॥
केवलं भक्तितुष्ट्यर्थं स भक्तेभ्यः प्रतीच्छति॥
योसावर्चयते देवो यत्र देवोर्च्यते बुधैः ॥१९॥
अभ्यर्चते च यैर्भावैः सर्वे तद्विद्धि तन्मयम्॥
तस्यार्चाकरणं विद्धि कर्तृप्रीतिप्रयोजनम् ॥२०॥
ज्ञेयं तथैव चात्मानं तस्य सर्वगतस्य तु॥
अनादिकारणं तेन नित्यतृप्तेन यादव ॥२१॥
अनुग्रहार्थं भक्तानां चात्मनः संप्रवर्तितम्॥
अशरीरः शरीरस्थो यथा भवति भूपते ॥२२॥
भक्तलक्षणबोधार्थं तथैवावाह्यते त्वसौ॥
अनाकारं महाराज लक्ष्यबन्धस्तु दुष्करः ॥२३॥
साकारैर्लक्षबन्धस्तु कर्तुं वै शक्यते सुखम्॥
विधिवच्च तथाकारः प्रादुर्भावगतस्य हि ॥२४॥
मयोक्तो राजशार्दूल पुरस्तादेव शास्त्रतः॥
भावो भवतु यो यस्मिन्भावनायां भवेन्नरः ॥२५॥
तत्रैव भावनानेन कार्या चार्चा च यादव॥
आदौ कृत्वा महाभाग साकारे लक्षबन्धनम् ॥२६॥
ततः समर्थो भवति शून्ये ध्याने नरोत्तम॥
एवमावाहनं तस्य तथा पूजा च यादव ॥२७॥
प्रबुद्धैः क्रियते यत्नादात्मानुग्रहकारणम्॥
नित्यतृप्तो न तृप्त्यर्थमुपहारं प्रयच्छति ॥२८॥
प्रतीच्छति महाराज भक्तानुग्रहकारकः॥
मोक्ष प्राप्तावुभावेतौ त्वया ज्ञेयौ महाभुज ॥२९॥
ज्ञानमार्गः क्रियामार्गः कृतो यश्च निराशिषः॥
वज्रबन्धाय भवति सकामेन क्रिया कृता॥
निष्कामेन कृता सैव मोक्षायैव विधीयते ॥३०॥
आवाहिताः सन्निहितास्तदेव भवत्यवश्यं नृप मन्त्रयुक्ताः॥
स्वतुष्टये देव वरस्य विष्णोरावाहन वज्र बुधैः प्रदिष्टम् ॥३१॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे आवाहनप्रयोजनवर्णनो नामाष्टोत्तरशततमोऽध्यायः ॥१०८॥

N/A

References : N/A
Last Updated : January 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP