संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १२४

खण्डः ३ - अध्यायः १२४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
कस्मिन्काले तु देवस्य किंकिं नाम प्रकीर्तयेत्॥
एतन्मे संशयं छिन्धि त्वं हि सर्वं विजानसे ॥१॥
मार्कण्डेय उवाच॥
पुरुषं वामदेवं च तथा सङ्कर्षणं प्रभुम्॥
प्रद्युम्नमनिरुद्धं च क्रमाच्छब्देषु वर्जयेत् ॥२॥
विष्णुं मधुनिहन्तारं तथा देवं त्रिविक्रमम्॥
वामनं श्रीधरं चैव हृषीकेशं तथैव च ॥३॥
दामोदरं पद्मनाभं केशवं च यदूत्तम॥
नारायणं माधवं च गोविन्दं च तथा क्रमात् ॥४॥
चैत्रादिषु तु मासेषु देवदेवमनुस्मरेत्॥
प्रद्युम्नमनिरुद्धं च पक्षयोः शुक्लकृष्णयोः ॥५॥
सर्वः शर्वः शिवः स्थाणुर्भूतानां निधिरव्ययः॥
आदित्यादिषु वारेषु क्रमादेवमनुस्मरेत् ॥६॥
विश्वं विष्णुर्वषट्कारो भूतभव्यभवः प्रभुः॥
भूतकृत् भूतभृद्भावो भूतात्मा भूतभावनः ॥७॥
अव्यक्तः पुंडरीकाक्षो विश्वकर्मा शुचिश्रवाः॥
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥८॥
अप्रमेयो हृषीकेशः पद्मनाभः परः प्रभुः॥
अग्राह्यः शाश्वतो धाता कृष्णश्चैतान्यनुस्मरेत् ॥९॥
देवदेवस्य नामानि कृत्तिकादिषु यादव॥
ब्रह्माणं श्रीपतिं विष्णुं कपिलं श्रीधरं प्रभुम् ॥१०॥
दामोदरं हृषीकेशं गोविन्दं मधुसूदनम्॥
भूधरं गदिनं चैव शिखिनं पद्मिनं तथा ॥११॥
चक्रिणं च महाराज प्रथमादिषु संस्मरेत्॥
सर्वं वा सर्वदा राम देवदेवस्य यादव ॥१२॥
नामानि सर्वाणि जनार्दनस्य कालश्च सर्वः पुरुषप्रवीर॥
तस्मात्सदा सर्वगतस्य नाम ग्राह्यं यथेष्टं वरदस्य राजन् ॥१३॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे कालनामाख्यानो नाम चतुर्विंशत्युत्तरशततमोऽध्यायः ॥१२४॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP