संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २९९

खण्डः ३ - अध्यायः २९९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच ॥
चतुर्धा सर्वपुण्यानां फलमुक्तं मनीषिभिः॥
कृतानि विधिहीनानि वञ्चनार्थं परस्य वा ॥१॥
क्रोधलोभाभिभूतेन तामसानि विनिर्दिशेत्॥
कृतानि परमानेन राजसानि भवन्ति तु ॥२॥
सात्त्विकानि भवन्तीह श्रद्धया परया द्विजाः॥
गुणान्तराणि विज्ञाय विधिकामं कृतानि तु ॥३॥
तामसानां फलं भुंक्ते तिर्यक्त्वे मानवः सदा॥
वर्णसंकरभावेन वार्धक्ये यदि वा पुनः ॥४॥
बाल्ये वा दासभावे वा नात्र कार्या विचारणा॥
अतोऽन्यथा तु मानुष्ये राजसानां फलं लभेत् ॥५॥
सात्त्विकानां फलं भुंक्ते देवत्वे नात्र संशयः॥
गुणोत्तरकृतानाञ्च फलमोक्ष उदाहृतः ॥६॥
कर्मणां धनसाध्यानां धनञ्च त्रिविधं स्मृतम्॥
कृष्णश्च शबलश्चैव शुक्लश्च द्विजसत्तमाः ॥७॥
त्रिविधस्य फलं तस्य त्रिविधं परिकीर्तितम्॥
कृष्णेन यत्कृतं किञ्चित्तिर्यक्त्वे तद्धि भुज्यते ॥८॥
वर्णानां हि धनं शुक्लमर्जितं यत्स्वकर्मणा॥
शबलन्तु समुद्दिष्टं तथानन्तरकर्मणा ॥९॥
वर्णोत्तमस्य हीनस्य कर्मणा कृष्णमुच्यते॥
तथापि शुक्लं वक्ष्यामि वर्णानान्तु द्विजोत्तमाः ॥१०॥
प्रतिग्रहेण यल्लब्धं याज्यतः शिष्यतस्तथा॥
गुणान्वितेभ्यो विप्रस्य शुक्लं तत्त्रिविधं धनम् ॥११॥
युद्धोपलब्धं कारञ्च दण्डाच्च व्यवहारतः॥
क्षत्त्रियस्य धनं शुक्लं त्रिविधं परिकीर्तितम् ॥१२॥
कृषिवाणिज्यगोरक्षाः कृत्वा शुक्लं तथा विशः॥
द्विजशुश्रूषया लब्धं शुद्धं शूद्रस्य कीर्तितम् ॥१३॥
न कथञ्चन कुर्वीत ब्राह्मणः कर्म वार्षलम्॥
वृषलः कर्म वा ब्राह्मं पतनीयेतरेतरम् ॥१४॥
(उत्कृष्टं चापकृष्टं च तयोः कर्म न विद्यते॥
मध्यमे कर्मणी हित्वा सर्वसाधारणे हिते ॥१५॥
सर्वेषामेव वर्णानां वक्ष्यामि विविधं धनम्॥)
पार्श्विक द्यूतचौर्यात्तु प्रतिरूपकसाहसैः ॥१६॥
व्याजेनोपार्जितं यत्तत्सर्वेषां कृष्णमुच्यते॥
शिल्पानुवृत्त्या यत्प्राप्तं कुसीदेन तथा धनम् ॥१७॥
कृतोपकारादाप्तं च शबलं समुदाहृतम्॥
क्रमागतं प्रीतिदायं प्राप्तं च सह भार्यया ॥१८॥
अविशेषेण सर्वेषां धनं शुक्लमुदाहृतम्॥
शुक्लेन वित्तेन कृतं पुण्यं बहुफलं भवेत् ॥१९॥
न्यायागतेनाथ धनेन विद्वान्पुण्यानि कृत्वा दिवि देवभोगान्॥
चिरं समश्नाति महानुभावो न्यायेन तस्माद्धनमजर्नीयम् ॥२०॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मा० सं० मुनीन्प्रति हंसगीतासु धनविचारो नाम नवनवत्युत्तरद्विशततमोऽध्यायः ॥२९९॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP