संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०६९

खण्डः ३ - अध्यायः ०६९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
ग्रहाणां रूपनिर्माणं समाचक्ष्व महाभुज॥
अनेनैव प्रसङ्गेन सर्वज्ञस्त्वं मतो मम ॥१॥
मार्कण्डेय उवाच॥
भौमोऽग्नितल्पः कर्तव्यश्चाष्टाश्वे काञ्चने रथे॥
विष्णुतल्पो बुधः कार्यो भौमतल्पे तथा रथे ॥२॥
तप्तजाम्बूनदः कार्यो द्विभुजश्च बृहस्पतिः॥
पुस्तकं चाक्षमालां च करयोस्तस्य कारयेत् ॥३॥
सर्वाभरणयुक्तश्च तथा पीताम्बरो गुरुः॥
अष्टाश्वे काञ्चने दिव्ये रथे दृष्टिमनोहरे ॥४॥
शुक्रः श्वेतवपुः कार्यः श्वेताम्बरधरस्तथा॥
द्वौ करौ कथितौ तस्य निधिपुस्तकसंयुतौ ॥५॥
दशाश्वे च रथे कार्यो राजते भृगुनन्दन॥
कृष्णवासास्तथा कृष्णः शनिः कार्यस्सिराततः ॥६॥
दण्डाक्षमालासंयुक्तः करद्वितयभूषितः॥
कार्ष्णायसे रथे कार्यस्तथैवाष्टभुजङ्गमे ॥७॥
रौप्यै रथे तथाष्टाश्वो राहुः कार्यो विचक्षणः॥
केवलं मस्तकं कार्यं भुजेनैकेन संयुतम् ॥८॥
करमेकं तु कर्तव्यं तस्य शून्यं तु दक्षिणम्॥
भौमस्य च तथा कार्यं केतो रूपं विजानता ॥९॥
केवलं चास्य कर्तव्या दशराजंस्तुरङ्गमाः ॥१०॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भौमादिग्रहरूपनिर्माणो नामैकोनसप्ततितमोऽध्यायः ॥६९॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP