संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०८४

खण्डः ३ - अध्यायः ०८४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
ऐडूकरूपनिर्माणं शृणुष्व गदतो मम॥
ऐडूकपूजनात्पूजा कृतास्य जगतो भवेत् ॥१॥
भद्रपीठं बुधः कुर्यात्सोपानैः शोभनैर्युतम्॥
चतुर्भिर्यादवश्रेष्ठ यथादिशमरिन्दम ॥२॥
तस्योपरिष्टादपरं भद्रपीठं तु कारयेत्॥
तस्योपरिष्टादपरं तादृग्विधमरिन्दम ॥३॥
तस्योपरिष्टात्कर्तव्यं लिङ्गरूपं विजानता॥
तत्तु तत्रापि कर्तव्यं लिंगरेखा विराजितम् ॥४॥
तस्य मध्ये ध्रुवां यष्टिं चतुरस्रां तु कारयेत्॥
तस्योपरिष्टात्कर्तव्या भूमिकास्तु त्रयोदश ॥५॥
तस्योपरिष्टात्कर्तव्यं तथैवामलतारकम्॥
तस्योपरि पुनर्यष्टिः कार्या राजन्सुवर्तुला ॥६॥
समार्धचन्द्रमध्यस्थचन्द्रकेण विराजिता॥
भूमिका या मया प्रोक्ता तथैवामलतारकम् ॥७॥
भुवनास्ते त्वया ज्ञेयास्तथा राजँश्चतुर्दश॥
लिंगे महेश्वरो देवो वृत्ता यष्टिः पितामहः ॥८॥
चतुरस्रा तु या यष्टिः स च देवो जनार्दनः॥
गुणरूपेण विज्ञेयं भद्रपीठत्रयं तथा ॥९॥
गुणाधानमिति प्रोक्तं त्रैलोक्यं सचराचरम्॥
अधस्ताद्भुवनानां तु लिङ्गोपरि तथा नृप ॥१०॥
लोकपालाश्च कर्तव्याः शूलहस्ताश्चतुर्दिशम्॥
विरूढो धृतराष्ट्रश्च विरूपाक्षश्च यादवः ॥११॥
कुबेरश्च महातेजाः सूर्यवेशधराः शुभाः॥
सर्वे कवचिनः कार्याः शुभाभरणभूषिताः ॥१२॥
विरूपाक्षं विजानीहि शक्रदेव गणेश्वरम्॥
धृतराष्ट्रं विजानीहि यमं भुवननायकम् ॥१३॥
विरूपाक्षं विजानीहि वरुणं यादसाम्पतिम्॥
राजराजं विजानीहि कुबेरं धनदं प्रभुम् ॥१४॥
ऐडूकरूपं कथितं मयैतत्प्रजाहिताख्यं यदुवंशमुख्य ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे ऐडूकरूपनिर्माणो नाम चतुरशीतितमोऽध्यायः॥८४॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP