संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २३९

खण्डः ३ - अध्यायः २३९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


ऋषय ऊचुः॥
के दोषाः पापशमना मनुष्याणां विनाशकाः॥
के गुणाश्च महादेव नित्यमभ्युदयात्मकाः ॥१॥
हंस उवाच॥
सर्वेषामेव दोषाणामज्ञानः परमो मतः॥
अज्ञश्चाश्रद्धधानश्च संशयात्मा विनश्यति ॥२॥
कामः क्रोधस्तथा लोभो हर्षो मानः सदैव च॥
अज्ञानेनावृतं जन्तुं निविशन्ते द्विजोत्तमाः ॥३॥
अज्ञानादेव पापानि विचिनोत्यविचक्षणः॥
अज्ञानादुत्पथं गत्वा नरकं प्रतिपद्यते ॥४॥
अज्ञानेनावृतो जन्तुः शुभे मार्गे न तिष्ठति॥
अज्ञानशमने यत्नस्ततः कार्यो विजानता ॥५॥
शास्त्रान्ववेक्षणं तस्य वृद्धसेवा तथैव च॥
तथा च गुरुशुश्रूषा त्वज्ञानशमनी मता ॥६॥
लोकद्वये नास्ति महानुभावा अज्ञानतुल्यः पुरुषस्य शत्रुः॥
अतो हि लोकद्वितयं सुखार्थी ज्ञाने तु कुर्यात्पुरुषः प्रयत्नम् ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु ज्ञानवर्णनो नामैकोनचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥२३९॥

N/A

References : N/A
Last Updated : January 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP