संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १२२

खण्डः ३ - अध्यायः १२२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
केन कार्येण देवस्य किंकिं नाम प्रकीर्तयेत्॥
एतन्मे संशयं छिन्धि भृगुवंशविवर्धन ॥१॥
मार्कण्डेय उवाच॥
वासुदेवाच्युतानन्तसत्याजपुरुषोत्तम॥
परमात्मेश्वराद्यैश्च ततो मोक्षं प्रयच्छति ॥२॥
धर्मविद्धर्मकृद्धर्मी विश्वात्मा विश्वकृच्छुचिः॥
शुचिमद्विष्णुरब्जाख्यो पुष्कराख्यो ह्यधोक्षजः ॥३॥
शुचिःश्रवा शिपिविष्टो यज्ञेशो यज्ञभावनः॥
नाम्नामित्येवमादीनां समुच्चारणतो नरः ॥४॥
धर्मं महान्तमाप्नोति पापबन्धक्षयं तथा॥
श्रीदः श्रीशः श्रीनिवासः श्रीधरः श्रीनिकेतनः ॥५॥
श्रियः पतिः श्रीपरमः श्रीमाञ्छ्रीवत्सलाच्छनः॥
नृसिंहो दुष्टदमनो जयो विष्णुस्त्रिविक्रमः ॥६॥
स्तुतः प्रयच्छते चाथ अणिमादिभिरच्युतः॥
काम्यः कामप्रदः कान्तः कामयात्मा तथा हरिः ॥७॥
आनन्दो माधवश्चैव कामसंवृद्धये जपेत्॥
रामः परशुरामश्च नृसिंहो विष्णुरेव च ॥८॥
विक्रमश्चैवमादीनि जप्यान्यरिजिगीषुभिः॥
दामोदरानिरुद्धौ च ज्ञेयौ बन्धनमोक्षदौ ॥९॥
जप्तव्योभ्यसता विद्यां महापुरुष इत्यपि॥
विद्यार्थिना वा जप्तव्यं तथाश्वशिरसेति च ॥१०॥
बलार्थी बलभद्रेति सौख्यार्थी सुखदेति च॥
अश्वार्थी चाश्वशिरसं गजार्थी नागमोक्षणम् ॥११॥
गोभिरर्थी जपेन्नाम वासुदेवेति कीर्तितम्॥
यज्ञार्थी यज्ञपुरुषं कीर्तयेत्प्रयतो नरः ॥१२॥
नारायणेति च तथा विष्णवेति यदूद्वह॥
यद्वाभिरोचतो रामं सर्वार्थेषु ह्युदीरयेत्॥
सर्वाण्येतानि नामानि परस्य ब्रह्मणो यतः ॥१३॥
सर्वाणि नामानि हि तस्य राजन् भवन्ति कामाखिलदायकानि॥
यदेव संकीर्तयते स शक्त्या तस्मादवाप्नोति हि कामसिद्धिम् ॥१४॥
इति श्रीविष्णुधर्मोत्तरे तृ० खण्डे मार्कण्डेयवज्रसंवादे कामप्राप्तिवर्णनो नाम द्वाविंशत्युत्तरशततमोऽध्यायः ॥१२२॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP