संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्याय १०२

खण्डः ३ - अध्याय १०२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच॥
आवाहयाम्यहं जीवं बीजं सर्वगतं प्रभुम्॥
पञ्चभावस्थितं देहे पञ्चधा च स्थितं पुनः ॥१॥
वायव्येन तु भावेन पञ्चधावस्थितं पुनः॥
आग्नेयेन तु भावेन पञ्चधावस्थितं तथा ॥२॥
वारुणेन च भावेन पञ्चधावस्थितं प्रभुम्॥
भूतात्मकत्वेन तथा पञ्चधावस्थितं पुनः ॥३॥
परमात्मानमत्युग्रमनुग्रं जगदीश्वरम्॥
सर्वगं सर्वधातारं सर्वेशमपराजितम् ॥४॥
अत्यर्थसूक्ष्मं वरदं क्षेत्रज्ञं प्रभुमीश्वरम्॥
।भूतभव्यभविष्यस्य प्रभुं लोकनमस्कृतम् ॥५॥
गुणाधारं जगद्योनिं महद्भ्योपि महत्तरम्॥
जीवदेव त्वमभ्येहि प्रविशार्चामिमां स्वयम् ॥६॥
कुरुष्व देवदेवेश सजीवं च तथानघ॥
इदमर्घ्यमिदं पाद्यं धूपोऽयं प्रतिगृह्यताम् ॥७॥
इति श्रीवि० ध० तृ० ख० मा० व० सं० जीवावाहनं नाम द्वयुत्तरशततमोऽध्यायः ॥१०२॥

N/A

References : N/A
Last Updated : January 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP