संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०७८

खण्डः ३ - अध्यायः ०७८

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
य एव भगवान्विष्णुर्नरसिंह वपुर्धरः॥
ध्यानविद्भिः स एवोक्तो ज्ञानः पलवरार्दनः ॥१॥
पीनस्कन्दकटिग्रीवः कृशमध्यः कृशोदरः॥
सिंहासने नृदेहस्तु नीलवासाः प्रभान्वितः ॥ऐ॥
आलीढस्थानसंस्थानः सर्वाभरणभूषितः॥
ज्वालामालाकुलमुखो ज्वालाकेसरमण्डलः ॥३॥
हिरण्यकशिपोर्वक्षः पाटयन्नखरैः खरैः॥
नीलोत्पलाभः कर्तव्यो देवजानुगतस्तथा ॥४॥
हिरण्यकशिपुर्दैत्यस्तमज्ञानं विदुर्बुधाः॥
सङ्कर्षणात्मा भगवानज्ञानस्य विनाशनः ॥५॥
वाङ्मनःकायसम्भूतं त्रिविधं जगतां मलम्॥
एतत्सङ्कर्षणो देवः सदा पाटयति द्विज ॥६॥
हरिः सङ्कर्षणांशेन नरसिंहवपुर्धरः॥
तमसस्त्रिविधस्यापि नाशनो जगतां हरिः ॥७॥
हार्द्दमूर्तिनिभस्तस्य नान्यो जगति विद्यते॥
नृसिंहमूर्तिर्देवस्य सर्वाज्ञानविनाशिनी ॥८॥
सिंहासने सुखासीनः कार्यो वा भगवान्हरिः॥
गदामस्तकविन्यस्तकरद्वितयभूषणः ॥९॥
ज्वालामालाकुलवपुः शङ्खपद्मधरः प्रभुः॥
मूर्तिमत्पृथिवीहस्तन्यस्तपादोऽथ वोत्थितः ॥१०॥
शङ्खचक्रगदापद्मलाञ्छनैः शोभितः करैः॥
अग्निज्वालाकुलावर्तविभूषिततनूरुहः ॥११॥
नरसिंहोऽथ वा कार्यः प्रभामण्डलदुर्दृशः॥
सर्वाभरणसम्पन्नः कार्यो भूषणवर्जितः ॥१२॥
ज्ञानं नृसिंहो जगतामधीशस्तेजोनिवासोम्बरसन्निकाशः॥
रूपं मयैतत्त्रिविधं प्रदिष्टं तस्याप्रमेयस्य जनार्दनस्य १३॥
इति श्रीवि० ध० तृ० ख० मा० सं० नृसिंहरूपनिर्माणो नामाष्टसप्ततितमोऽध्यायः ॥७८॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP