संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १५३

खण्डः ३ - अध्यायः १५३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
इदमन्यत्प्रवक्ष्यामि पञ्चमूर्तिव्रतं तव॥
संवत्सरः स्मृतो वह्निस्तथार्कः परिवत्सरः ॥१॥
इडापूर्वस्तथा सोम अनुपूर्वः प्रजापतिः॥
तत्पूर्वश्च तथा प्रोक्तो देवदेवो महेश्वरः ॥२॥
तेषां मण्डलविन्यासैः प्राग्वदेव विधीयते॥
यागश्च पूजनं कार्यं होमः कार्यस्तथाविधः ॥३॥
तिलव्रीहियवैश्चैव घृतेन सितसर्षपैः॥
तल्लिङ्गैरथ वा मन्त्रैर्नामभिः प्रत्यहं क्रमात् ॥४॥
नक्ताशनस्तथा तिष्ठेत्प्राग्वद्दिवसपञ्चकम्॥
संवत्सराख्ये वर्षे तु व्रतमेतत्समारभेत् ॥५॥
व्रतावसाने दातव्यं सुवर्णं पञ्च यादव॥
चतुर्वेदविदां देयं शाखाभेदेन यादव ॥६॥
एकैकं पञ्चमं देयं तथा कालविदे भवेत्॥
अश्वमेधफलं ह्येतद्व्रतं तव मयेरितम् ॥७॥
यथेष्टं लोकमाप्नोति कामचारी विहङ्गमः॥
कृतं नानेन धर्मज्ञ पूज्यमानः सुरासुरैः।८॥
मानुष्यमासाद्य भवत्यरोगो वर्णेन रूपेण बलेन युक्तः॥
नृपः प्रतापानतशत्रुसंघो देवोत्तमो वा बहुयज्ञयाजी ॥९॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे पञ्चव्रतविधौ संवत्सरपूजायामश्वमेधफलवर्णनो नाम त्रिष्पञ्चाशदुत्तरैकशततमोऽध्यायः ॥१५३॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP