संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३१०

खण्डः ३ - अध्यायः ३१०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
सुवर्णमुत्तमं रत्नं धनानामपि चोत्तमम्॥
लोहानामुत्तमञ्चैव सर्वेषामपि चोत्तमम् ॥१॥
अग्नेरपत्यं प्रथमं पवित्रं मङ्गलं परम्॥
धारणात्सर्वपापघ्नं दातुस्त्रिदशलोकदम् ॥२॥
मुकुटैः कुण्डलैर्हारैः केयूरैरङ्गदैस्तथा॥
धार्यते यत्सदा देवैः पवित्रत्वाद्द्विजोत्तमाः ॥३॥
जाम्बूनदं तद्देवानामिन्द्रगोपकसन्निभम्॥
पितॄणाञ्चन्द्ररश्म्याभं दैत्यानां शबलोपमम् ॥४॥
नागानां तच्छुकाभं स्यान्नारीणां पीतमुच्यते॥
दत्त्वा कृष्णलमात्रन्तु नरः पापात्प्रमुच्यते ॥५॥
दत्त्वा च माषकं तस्य पुण्यं फलमुपाश्नुते॥
सुवर्णमाषकं दत्त्वा सूर्यस्योदयनं प्रति ॥६॥
हुत्वाग्निं सर्वपापेभ्यो मोक्षमाप्नोत्यसंशयम्॥
त्रेताग्निव्रतमेतत्तु कीर्तितं तस्य नित्यदा ॥७॥
दिनमध्यगते सूर्ये हुत्वाग्निं यः प्रयच्छति॥
तस्याग्निनित्यदाने च महत्फलमुदाहृतम् ॥८॥
सूर्यस्यास्तमये वह्निं हुत्वा तद्वै प्रयच्छति॥
पुण्यं महत्समाप्नोति नित्यदानेन वै द्विजाः ॥९॥
त्रिसन्ध्यं कनकं यस्तु हुत्वा वह्निं प्रयच्छति॥
न स लिप्येत पापेन पद्मपत्रमिवाम्भसा ॥१०॥
सकृत्कृष्णलदानेन स्वर्गे वर्षं सुखी वसेत्॥
तथा च पञ्चवर्षाणि स्वर्गे दत्त्वैव माषकम् ॥११॥
यः सुवर्णं सुवर्णस्य ब्राह्मणाय प्रयच्छति॥
निर्दोषः स्यात्स नाके तु मोदत्यब्दशतं ध्रुवम् ॥१२॥
आत्मतुल्यं सुवर्णस्य यः प्रयच्छति वै द्विजाः॥
सर्वपापविनिर्मुक्तो यथेष्टाङ्गतिमाप्नुयात् ॥१३॥
ब्रह्मघ्नो वा सुरापो वा स्तेनो वा गुरुतल्पगः॥
सर्वपातकयुक्तोऽपि तेन दानेन मुच्यते ॥१४॥
श्रद्धानामुत्तमञ्चैतद्दानानामुत्तमोत्तमम्॥
रुक्मं दत्त्वा ब्राह्मणाय सुखी सर्वत्र जायते ॥१५॥
चिरान्नाकपरिभ्रष्टो रूपसौभाग्यसंयुतः॥
तासां कुले तु सुस्फीते गुणैः सर्वैर्युतो नरः ॥१६॥
रुक्मपात्रप्रदानेन पुत्री भवति मानवः॥
सर्वेषामेव कामानां यशसस्त्रिदिवस्य च ॥१७॥
रूप्यदो रूपमाप्नोति भोगमाप्नोति ताम्रदः॥
लोहारकूटयोर्दानात्कुप्यमाप्नोत्यसंशयम् ॥१८॥
त्रपुसीसकयोर्दानाद्वह्निवृद्धिमवाप्नुयात्॥
यथेष्टं लोहपात्रञ्च यः प्रदद्याद्द्विजातये ॥१९॥
पात्रं भवति कामानां विशेषश्चास्य लोहतः॥
शिल्पभाण्डानि यो दद्याल्लोहानि विधिवद्द्विजाः ॥२०॥
विद्यादानफलं तस्य कथितं नात्र संशयः॥
चर्मदाता नरो नित्यं रक्षां समधिगच्छति ॥२१॥
आयुधानां प्रदानेन रिपुनाशमवाप्नुयात्॥
राजलिङ्गप्रदानेन राजा भवति भूतले ॥२२॥
रत्नानां च प्रदानेन राजैवेह प्रजायते॥
रत्नदानस्य यल्लोकं तद्भुक्त्वा सुचिरं द्विजाः ॥२३॥
वज्रदः शक्रलोकन्तु पद्मरागप्रदो रवेः॥
सद्यो मरकतं दत्त्वा विष्णुलोके महीयते ॥२४॥
मुक्ताफलप्रदानेन वारुणं लोकमश्नुते॥
वैदूर्यस्य प्रदानेन द्वीपानां सप्त मोदते ॥२५॥
रत्नान्यन्यानि दत्त्वा च राजराजस्य च द्विजाः॥
सर्वेषामेव रत्नानां कनकं श्रेष्ठमुच्यते ॥२६॥
धारणं कीर्तनं दानं कनकस्य प्रशस्यते॥
दुःस्वप्रशमनं दानं दुरिष्टस्य च नाशनम् ॥२७॥
परं पापहरं ज्ञेयमलक्ष्मीशमनं तथा॥
दत्त्वा सुवर्णं लोकेषु यथेष्टेषु च मोदते ॥२८॥
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता॥
देवरामागणाढ्येन कामगेन विहायसा॥
भुक्त्वा दिवि चिरं भोगान्मानुष्ये सुखमाप्नुयात्॥
अग्नेरपत्यं प्रथमं सुवर्णं भूर्वैष्णवी ब्रह्मसुताश्च गावः॥
सर्वं हि दत्तं भवतीह तेन यः काञ्चनं गाञ्च महीञ्च दद्यात् ॥३०॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु सुवर्णदानविधिनिरूपणो नाम दशाधिकत्रिशततमोऽध्यायः ॥३१०॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP