संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १६७

खण्डः ३ - अध्यायः १६७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
यस्मिन्यस्मिन्क्रतौ ब्रह्मन्ननुयान्ति रविं प्रभुम्॥
येये देवप्रभृतयस्तन्मे त्वं वक्तुमर्हसि ॥१॥
मार्कण्डेय उवाच॥
धातार्यमा च राजेन्द्र वसन्ते देवताद्वयम्॥
तुम्बुरुर्नारदश्चैव गन्धर्वौ गायनौ वरौ ॥२॥
कृतस्थलाप्सराश्चैव तथा या पुञ्जिकस्थला॥
होता प्रहोता च तथा रक्षोघ्नौ मणिपुङ्गवौ ॥३॥
उरगो वासुकिश्चैव वाष्टकर्णी च तावुभौ॥
रथकृत्स्ना रथौजाश्च यातुधानवरौ तथा ॥४॥
मित्रश्च पुलहश्चैव तथैवमृषिसत्तमौ॥
अनुयाति सितश्चैव वसन्ते च यथा ग्रहः ॥५॥
येनुयान्ति रविं देवं निदाघे तान्निबोधसे॥
मित्रश्च वरुणश्चैव ग्रीष्मे देवौ वसन्ति च ॥६॥
ऋषिरत्रिर्वसिष्ठश्च नागौ रंभकतक्षकौ॥
मेनका सहजन्या च गन्धर्वौ च हहाहुहू ॥७॥
रथस्वनप्रमाणश्च रथकृत्सश्च तावुभौ॥
पौरुषादो वधश्चैव यातुधानौ तु तौ स्मृतौ ॥८॥
अनुयाति कुजश्चैव निदाघे च तथा ग्रहः॥
येनुयान्ति रविं देवं प्रावृट्काले निबोध मे ॥९॥
इन्द्रश्चैव विवस्वांश्च अङ्गिरा भृगुरेव च॥
एलपत्रस्तथा सर्पः शङ्खपालश्च पन्नगः ॥१०॥
शुचिसेनोग्रसेनौ च व्रातश्चैवारुणश्च वै॥
प्रम्लोचेत्यप्सराश्चैव निम्लोचन्ती च ते उभे ॥११॥
यातुधानस्तथा सर्पो व्याघ्रश्च मनुजेश्वर॥
प्रावृट्काले तु यात्येनं ग्रहो देवपुरोहितः ॥१२॥
अतः परं निबोधस्व शरत्काले नराधिप॥
पर्जन्यश्चैव पूषा च भरद्वाजश्च गौतमः ॥१३॥
चित्रसेनश्च गंधर्वस्तथा वसुरुचिश्च वै॥
विश्वाची च घृताची च तथा चैवाप्सरोद्वयम् ॥१४॥
नागश्चैरावतश्चैव विश्रुतश्च धनञ्जयः॥
सेनजिच्च सुषेणश्च राक्षसौ भीमविक्रमौ ॥१५॥
वातोद्वातौ च तथा यातुधानौ महाबलौ॥
ग्रहः शनैश्चरश्चैवमनुयान्ति दिवाकरम् ॥१६॥
अतः परं प्रवक्ष्यामि हेमन्ते तव पार्थिव॥
अंशो भगश्च द्वावेतौ कश्यपश्च क्रतुश्च वै ॥१७॥
भुजगश्च महापद्मः सर्पः कर्कोटकस्तथा॥
चित्रसेनश्च गन्धर्व ऊर्णायुश्च महाबलः ॥१८॥
अप्सराः पूर्वचित्तिश्च गन्धर्वी उर्वशी तथा॥
तार्क्ष्यश्चारिष्टनेमिश्च राक्षसौ भीमविक्रमौ ॥१९॥
विद्युत्स्फूर्जस्तथैवोग्रौ यातुधानौ महाबलौ॥
अनुयाति ग्रहश्चैव बुधो राजन्दिवाकरम् ॥२०॥
अतःपरं च धर्मज्ञ शिशिरे गदतः शृणु॥
त्वष्टा विष्णुर्जमदग्निर्विश्वामित्रस्तथैव च ॥२१॥
काद्रवेयौ तथा नागौ कंबलाश्वतरावुभौ॥
तिलोत्तमाप्सराश्चैव देवी रम्भा मनोरमा ॥२२॥
कारणी शितिशश्चैव सत्यजिच्च महायशाः॥
ब्रह्मोपेतश्च रक्षो वै यज्ञोपेतस्तथैव च ॥२३॥
गन्धर्वो धृतराष्ट्रश्च सूर्यवर्चास्तथापरः॥
चन्द्रमा ग्रहराजश्च अनुयाति दिवाकरम् ॥२४॥
एवं हि शिशिरे राजन्ननुयानं प्रकुर्वते॥
स्थानाभिमानिनो ह्येते सप्तद्वादशका गणाः ॥२५॥
गणषट्कस्तथैवैकमनुयाति दिवाकरम्॥
सूर्यमाप्याययन्त्येते तेजसा तेज उत्तमम् ॥२६॥
ग्रथितैस्तवचोभिश्च कुर्वन्ति ऋषयस्तवम्॥
गन्धर्वाप्सरसश्चैव गीतैर्नृत्यैरुपासते ॥२७॥
विद्याग्रामणिनश्चैव कुर्वन्त्यत्राभिषुग्रहम्॥
सर्पा वहन्ति वै सूर्यं यातुधानोऽनुयाति च ॥२८॥
परिवार्य ग्रहश्चैव नयत्यस्तं यथाविधि॥
एतेषामेव देवानां यथावीर्यं यथातपः ॥२९॥
यथासत्वमसौ सूर्यस्तेषां सिद्धस्तु तेजसा॥
भूतानामशुभं कर्म विनाशयति तेजसा ॥३०॥
ग्रीष्मे हिमे च वर्षासु जनयन्स दिवाकरः॥
धर्मं हिमं च वर्षं च दिनं च निशया सह ॥३१॥
इति श्रीविष्णुधर्मो० तृ० ख० मार्कण्डेयवज्रसंवादे आदित्यानुचरवर्णनो नाम अष्टषष्ट्युत्तरशततमोऽध्यायः ॥१६८॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP