संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १३७

खण्डः ३ - अध्यायः १३७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच॥
अतः परं प्रवक्ष्यामि विष्णुमूर्तिव्रतं तव॥
द्विधा तु देवदेवस्य मृर्तिर्भवति यादव ॥१॥
घोरा चान्या शिवा चान्या घोरा भवति पावकः॥
शिवा चाम्बुपतिर्यस्मादग्नीषोमात्मकं जगत् ॥२॥
द्विधा घोरा विनिर्दिष्टा द्विधा सौम्या ततः पुनः॥
घोरा वह्निश्च सूर्यश्च सौम्या सोमजलाधिपो ॥३॥
तेषां च पूजनं कार्यं प्रतिवत्प्रभृति क्रमात्॥
शुक्लपक्षादथारभ्य फाल्गुनस्य द्विजोत्तम ॥४॥
आदित्यं पूजयेद्राजा प्रथमेह्नि परः शुचिः॥
द्वितीयेह्नि तथा वह्नि तृतीयेह्नि जलाधिपम् ॥५॥
चतुर्थेह्नि शशांकं च यथावन्मानवोत्तम॥
तेषां तु रूपनिर्माणं कृत्वा तानर्चयेद्बुधः ॥६॥
गन्धमाल्यनमस्कारधूपदीपान्नसंपदा॥
वचाहरिद्रया स्नानं प्रथमेह्नि समाचरेत् ॥७॥
द्वितीये यदुशार्दूल स्नानमामलकैः शुभम्॥
प्रियङ्गुणा तृतीये च चतुर्थे गौरसर्षपैः ॥८॥
गोधूमतिलधान्यैश्च यवैश्च दिवसं क्रमात्॥
होमश्च कार्यो धर्मज्ञ दक्षिणां शृणु चाप्यथ ॥९॥
कुंकुमं रक्तवस्त्रं च चन्दनं छत्रमेव च॥
क्षीरेण चात्र कर्तव्यं प्रत्यहं प्राणधारणम् ॥१०॥
एतत्संवत्सरं कृत्वा व्रतं पूर्णं नरोत्तम॥
सर्वकामसमृद्धस्य यज्ञस्थं फलमश्नुते ॥११॥
विमानेनार्कवर्णेन स्वर्गलोकं च गच्छति॥
तत्रोष्य सुचिरं कालं कुले महति जायते ॥१२॥
मानुष्यमासाद्य भवत्यरोगो वसुन्धरेशो विजितारिपक्षः॥
धर्मे स्थितः सत्यपरो विनीतो जितेन्द्रियः सर्वजनाभिरामः ॥१३॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे चतुर्मूर्तिव्रतवर्णनो नाम सप्तत्रिंशदुत्तरशततमोऽध्यायः ॥१३७॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP