संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १२०

खण्डः ३ - अध्यायः १२०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच ॥
कस्मिन्काले तु देवस्य प्रादुर्भावं कमर्चयेत्॥
एतन्मे संशयं छिन्धि भृगुवंशविवर्धन ॥१॥
 ॥मार्कण्डेय उवाच ॥
नृहयं नृवराहं च नरसिंहं च वामनम्॥
त्रिविक्रमं तु धर्मज्ञ पञ्चस्वब्देषु पूजयेत् ॥२॥
वासुदेवं हलधरं पूजयेदयनद्वये॥
प्रद्युम्नमनिरुद्धं च तथा भोगशयं प्रभुम् ॥३॥
पद्मनाभं दाशरथिं रामं भार्गवमेव च ॥४॥
वसन्तादिषु धर्मज्ञ पूजयेदृतुषु क्रमात्॥
गजेन्द्रमोक्षणं चैवं पृथुं वाल्मीकिमेव च ॥५॥
व्यासं च कृष्णं च नरं नरनारायणौ तथा॥
रामं रामं तथा रामं हरिं चैत्रादिषु क्रमात् ॥६॥
वह्निं प्रजापतिं सोमं रुद्रं स्त्रीरूपिणं तथा॥
व्यासं शेषं वराहं च प्रद्युम्नं चार्जुनं नृप ॥७॥
आदित्यं विश्वकर्माणं चक्रं देवं नृकेसरिम्॥
गरुडं पुरुहूतं च कपिलं पद्ममेव च ॥८॥
विश्वरूपं च ब्रह्माण तथा देवं त्रिविक्रम॥
गवां कूर्मं नरं चैव तथा नारायणं हरिम्॥
रामं कृष्णं च वरदं कृत्तिकादिषु पूजयेत्॥
नृहयं नृवराहं च तथा देवं त्रिविक्रमम ॥१०॥
कपिलं भोगिशयनं वराहं मत्स्यमेव च॥
रामं रामं च धर्मज्ञ कूर्मं हंसं च यादव ॥११॥
प्रद्युम्नं बलदेवं च वराहं च तथा क्रमात्॥
तिथिषु प्रथमाद्यासु क्रमेणैव समर्चयेत ॥१२॥
यथेष्टमूर्तिगं देवं सर्वकालमथार्चयेत॥
तस्य सर्वातिथिर्यस्मान्महाशक्तेर्जगद्गुरोः ॥१३ ॥
स सर्वशक्तिर्भगवान्महात्मा पूज्यः सदा भक्तिमुपेत्य राजन्॥
संपूजनं देववरस्य तस्य भक्ति प्रधाना न हि कालयोगः ॥१४ ॥
इति विष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्र संवादे कालनियमपूजावर्णनो नाम विंशत्युत्तरशततमो ऽध्याय ॥१२०॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP