संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १६२

खण्डः ३ - अध्यायः १६२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
अतः परं प्रवक्ष्यामि तव लोकव्रतं शुभम्॥
यास्तु व्याहतयः सप्त त्रैलोक्यां तु प्रकीर्तिताः ॥१॥
आचरेत्प्रत्यहं स्नानं बहिर्नित्यमतन्द्रितः॥
चैत्रशुक्लादथारभ्य क्रमेण दिनसप्तकम् ॥२॥
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्॥
एकरात्रोपवासश्च क्रमेणैवं समाचरेत् ॥३॥
महाव्याहतिभिर्होमस्तिलैः कार्यो दिनेदिने॥
संवत्सरान्ते दद्याच्च तथा विप्रेषु दक्षिणाम् ॥४॥
सुवर्णमहतं वासः कांस्यं धेनुं पयस्विनीम्॥
संवत्सरमिदं कृत्वा व्रतं पुरुषसत्तम ॥५॥
सर्व लोकचरः श्रीमान्स्वेच्छया स्यान्नराधिप॥
यावत्कल्पावसानं तु कल्पादौ पार्थिवो भवेत् ॥६॥
स चक्रवर्ती नृपवर्यपूज्यः सुरासुराणामधिकप्रभावः॥
संवत्सराणामयुतं शतानां सम्पाति पृथ्वीं सकलाभिरामः ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे सप्तव्याहृति सप्तलोकव्रतवर्णनो नाम द्वाषष्ट्युत्तरशततमोऽध्यायः ॥१६२॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP