संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३१३

खण्डः ३ - अध्यायः ३१३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
दानानामुत्तमं लोके वस्त्रदानं प्रकीर्तितम्॥
वासो हि सर्वदैवत्यं सर्वप्रायोज्यमश्नुते ॥१॥
वस्त्रदाता सुवेशः स्याद्रूपद्रविणसंयुतः॥
युक्तो लावण्यसौभाग्यैर्विरोगश्च तथा द्विजाः ॥२॥
नीलं रक्तं तथा जीर्णं न देयं ब्राह्मणस्य तु॥
देयं वरञ्चाङ्गिरसं क्षौमं दत्त्वा बृहस्पतेः ॥३।
दत्त्वा कार्पासिकं वस्त्रं स्वर्गलोके महीयते॥
दत्त्वा सरोमं तदपि फलं दशगुणं भवेत् ॥४॥
आविकं वसनं दत्त्वा भृगूणां लोकमाप्नुयात्॥
छागं दत्त्वा चाङ्गिरसं क्षौमं दत्त्वा बृहस्पतेः ॥५॥
वसूनां लोकमाप्नोति कुशकौशेयवाससी।॥
क्रिमिजञ्च ततो दत्त्वा सोमलोके महीयते ॥६॥
अग्निष्टोममवाप्नोति दत्त्वैव मृगलोमिकाम्॥
दत्त्वा वल्कलजं वासो वसूनां लोकमाप्नुयात् ॥७॥
सुमेरकदल्यादीनां दत्त्वा चैव तथाजिनम्॥
वारवाणं शिरस्त्राणं हस्तत्राणं तथैव च ॥८॥
पादत्राणं च ददतः पृथग्यफलं स्मृतम्॥
वस्त्रदानं पवित्रन्तु पितॄणामपि तारणम् ॥९॥
कौसुंभरक्तं दत्त्वा तु सौभाग्यं महदाप्नुयात्॥
दानात्कुङ्कुमरक्तस्य लावण्यं महदाप्नुयात् ॥१०॥
रङ्गैरन्यैरनीलैश्च रक्तं दत्त्वा सुखी भवेत्॥
यथायथा तु वस्त्रस्य भवतीह महर्घता ॥११॥
यथायथा शुभ्रता च तथा पुण्यफलं लभेत्॥
अन्येषामपि दानानामेतदेव प्रकीर्तितम् ॥१२॥
सर्वदो वस्त्रदः प्रोक्तो यतः सर्वत्र वस्त्रवान्॥
पूजामाप्नोति धर्मज्ञास्तद्धि तस्माद्विशिष्यते ॥१३॥
वस्त्रदः सुचिरं कालं भुक्त्वा देवसुखान्दिवि॥
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥१४॥
मानुष्यमासाद्य भवत्यरोगः शौचान्वितः सौख्यपरो विनीतः॥
जनाभिरामश्च तथा सुवेशः पूज्यश्च लोके विदुषां सदैव ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे भार्कण्डेयवज्र संवादे मुनीन्प्रति हंसगीतासु वस्त्रदानप्रशंसावर्णनो नाम त्रयोदशाधिकत्रिशततमोऽध्यायः ॥३१३॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP