संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १६०

खण्डः ३ - अध्यायः १६०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
अथातः संप्रवक्ष्यामि समुद्रव्रतमेव ते॥
चैत्रशुक्लादथारभ्य प्रत्यहं दिवसत्रयम् ॥१॥
लवणक्षीरआज्यौघदधिमण्डसुरोदकम्॥
तथैवेक्षुसुरोदं च स्वादूदं चैव पूजयेत् ॥२॥
आचरेत्प्रत्यहं स्नानं नित्यमेव गृहाद्बहिः॥
घृतेन होमं कुर्वीत सप्तसस्यं च दापयेत् ॥३॥
हविष्याशी भवेन्नक्तं कुर्यात्संवत्सरं व्रतम्॥
संवत्सरान्ते दद्याच्च तथा धेनुं पयस्विनीम् ॥४॥
व्रतेनानेन चीर्णेन सप्तसागरमेखलाम्॥
भुनक्ति वसुधां राजा सप्तजन्मान्तराणि च ॥५॥
आरोग्यकामः कुर्वीत व्रतमेतत्तथोत्तमम्॥
धर्मकामो यशःकामः श्रीकामश्च तथापरः ॥६॥
मङ्गल्यमेतत्परमं पवित्रं श्रीवर्धनं धर्मविवृद्धिकारि॥
कर्तव्यमेतत्प्रयतैर्मनुष्यैर्ये राज्यकामास्तु विशेषतस्तैः ॥७॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे लवणसमुद्रादि सप्तसमुद्रव्रतवर्णनो नाम षष्ट्युत्तरशततमोऽध्यायः ॥१६०॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP