संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०५३

खण्डः ३ - अध्यायः ०५३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
कर्तव्यः पद्मपत्राभो धनदो नरवाहनः॥
चामीकराभो धनदः सर्वाभरणभूषणः ॥१॥
लम्बोदरश्चतुर्बाहुर्वामपिङ्गललोचनः॥
अपीच्यवेशः कवची हारभारार्पितोदरः ॥२॥
द्वे च दंष्ट्रे मुखे तस्य कर्तव्ये श्मश्रुधारिणः॥
वामेन विनता कार्या मौलिस्तस्यारिमर्दिनी ॥३॥
वामोत्संगगता कार्या ऋद्धिर्देवी वरप्रदा॥
देवपृष्ठगतं पाणिं द्विभुजायास्तु दक्षिणम् ॥४॥
रत्नपात्रकरं कार्यं वामं रिपुनिषूदन॥
गदाशक्ती च कर्तव्ये तस्य दक्षिणहस्तयोः ॥५॥
सिंहाङ्कलक्षणं वृत्तं शिबिकामपि पादयोः॥
शङ्खपद्मौ निधी कार्यौ स्वरूपौ निधिसंस्थितौ ॥६॥
शङ्खपद्मान्तनिष्क्रान्तं वदनं तस्य पार्श्वतः॥
अनिरुद्धस्तु विज्ञेयस्त्वया देवो धनाधिपः ॥७॥
ब्रह्मणा कथितं तस्य सर्वाभरणसाधनम॥
सुवर्णं नाम विख्यातं धनानामुत्तमं धनम्॥
तस्यानुग्रहतो धत्ते वासः कनकसन्निभम्॥
शक्तिरेव स्मृता शक्तिर्दण्डनीतिस्तथा गदा ॥९॥
लोकयात्रा च कथिता ऋद्धिर्ज्ञेया स्वभावतः ॥८॥
तत्करे रत्नपात्रं तु गुणाधारं प्रचक्षते ॥१०॥
नरं राज्यं विजानीहि यत्रस्थस्तु सदा विभुः॥
स्वरूपतस्तु विज्ञेयौ शङ्खपद्मौ तथा निधी ॥११॥
वित्ततोंशो जयत्यस्मिंस्ताभ्यां प्रसवतेऽयुतः॥
अर्थः सक्षमया ज्ञेयः केतुः सिंहाङ्कलक्षणः॥
निग्रहानुग्रहे दंष्ट्रे तस्य तात महात्मनः ॥१२॥
यक्षाधिपस्येतदनन्तदंष्ट्रं नामे वने यक्षनदस्य राजन्॥
अतः परं किं कथयामि तुभ्यं तन्मे वदस्वायतलोहिताक्ष ॥१३॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वैश्रवणरूपनिर्माणो नाम त्रिपञ्चाशत्तमोऽध्यायः ॥५३॥

N/A

References : N/A
Last Updated : December 26, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP